Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२२६
काव्यमाला । वाक्यार्थाश्रयत्वे च ध्वनेः संकीर्णतायामविरोधः स्वप्रभेदान्तरवत् । यथाहि ध्वनिप्रभेदान्तराणि परस्परं संकीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्वानि किं चैकव्यङ्गयाश्रयत्वे तु प्रधानगुणभावो विरुध्यते । नतु व्यङ्ग्य. भेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च संकरसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यंत्र तु पदानि कानिचिदविवक्षितवाच्यान्यनुरणनरूपव्यङ्गयवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्गययोः संसृष्टत्वम् । यथा-'तेषां गोपवधूविलाससुहृदां' इत्यादौ । अत्र हि 'विलाससुहृदां' 'राधारहःसाक्षिणां' इत्येते पदे ध्वनिप्रभेदरूपे 'ते' 'जाने' इत्येते च पदे गुणीभूतव्यङ्गयरूपे । वाच्यालंकारसंकीर्णत्वमलक्ष्यक्रमव्यङ्गयापेक्षया रसवति रसालंकारे च काव्ये सर्वत्रैव सुव्यवस्थितम् । प्रभेदान्तराणामपि कदाचित्संकीर्णत्वं भवत्येव । यथा ममैव
ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेतदृश्यमानमप्ययुक्तवान्न श्रद्धेयमित्याशङ्का व्याकमेदात्तावन्न विरोध इति दर्शयति-स्वेति । खप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीति तान्येव दृष्टान्तयति । तदेव व्याचष्टे-यथाहीति । तथात्रापीत्यध्याहारोऽत्र कर्तव्यः । 'तथा हि' इति वा पाठः । ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारोस्तु एकव्यञ्जकानुप्रवेशे तु वक्तव्यमित्याशय पारमार्थिकं परिहरन्नाह–किंचेति । ततोऽपीति । यतो व्यङ्गयं गुणीभूतमन्यच्च प्रधानमिति को विरोधः । ननु वाच्यालंकारे विषये श्रुतोऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्कयाह-अयं चेति । मन्तव्य इति । मननेन प्रतीत्या तथा निश्चयति (निश्चय इति)। उभयत्रापि प्रतीते रेव शरणवादिति भावः । एवं गुणीभूतव्यङ्ग्यसंकरभेदानुदाहृत्य संसृष्टिमुदाहरति-यत्र तु पदानीति । कानिचिदित्यनेन संकेरावकाशं निराकरोति । सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः 'ते' इत्यादिना साधारणगुणगणाभिव्यक्तोऽपि न गुणवमवलम्बते । वाच्यस्यैक स्मरणस्य प्राधान्येन चारुत्वहेतुवात् । 'जाने' इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यंजकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानी क्रियते । एवं गुणीभूतव्यङ्गयेऽपि चत्वारो मेदा उदाहृताः । अधुनालंकारगतांस्तान्दर्शयति-वाच्यालंकारेति । व्यङ्ग्यले खलंकाराणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः । काव्य इति । एवंविधमेव हि काव्यं भवति । (प्रभेदान्तराणामपीति । ) सुव्यवस्थितमिति । 'विवक्षा तत्पर
१. 'तथा हि' क-ख. २. 'यत्तु' ग.
१. 'अत एवेति' ग. २. परिभवः' क-ख. ३. 'व्यङ्ये त्रीसंकर' क-ख. ४. 'यत्त्विति' ग. ५. 'सर्वत्रावकाशं' क-ख. ६. 'वाचकेनापि' क-ख.
Loading... Page Navigation 1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258