Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२२४
काव्यमाला।
कीर्णः, खप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसंकीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालंकारान्तरसंकीर्णो वाच्यालंकारान्तरसंसृष्टः संसृष्टालंकारसंकीर्णः संसृष्टालंकारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते । तत्र खप्रभेदसंकीर्णत्वं कदाचिदनुग्राह्यानुप्राहकभावेन । यथा-'एवंवादिनि देवर्षों-' इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्गयध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्गयध्वनिप्रमेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित्प्रभेदद्वयसंपातसंदेहेन । यथा
'खणपाहुणिआ देअर एसा जाआएँ किंपि दे भणिदा ।
रुअइ पडोहरलवहीघरम्मि अणुणिज्जड वराई ॥ अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसंक्रमितवाच्यत्वेन विवक्षितान्यपर.
गयेनालंकारैः प्रकाश्यत इत्यत्र ये भेदास्तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेति षद । संकरस्यापि त्रयः प्रकाराः । अनुग्राह्यानुप्राहकभावेन संदेहास्पदलेनैकपदानुप्रवेशेनेति द्वादश मेदाः । पूर्व च ये पञ्चत्रिंशद्भेदा निरुक्तास्ते गुणीभूतव्यङ्ग्यस्यापि मन्तव्याः खप्रभेदास्वावन्तोऽलंकारा इत्येकसप्ततिः । तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके । तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारिशतानि विंशत्यधिकानि भवन्ति । अलंकाराणामानन्त्यात्त्वसंख्यत्वम् । तत्र व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः कारिकायामन्यपदार्थवेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चखायुदाहरणान्याह-तत्रेति । अनुगृह्यमाण इति । लज्जया हि प्रतीताभिलाषशृङ्गारोऽत्रानुगृह्यते व्यभिचारिभूतलेन । क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर, एषा ते जायया किमपि भणिता रोदिति । पडोहरे शून्ये वलभीगृहे । अनुनीयतां वराकी । सा तावद्देवरानुरक्ता सजायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं दृष्टवत्या अन्यस्या देवरचौरकामिन्याः । तत्र गृहिण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह । तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् । यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ध्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् । एषा तवेदानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः । वयं विदानी गर्हणीया संवृत्ता इत्येव तत्परतयोभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चयेन प्रमाणाभाव इत्युक्तम् । विवक्षितस्य हि खरूपस्थस्यैवान्यपरत्वम् । संक्रान्तिस्तु तस्यैव तद्रूपापत्तिः । यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृत्तान्तं प्रतीयमुक्तिः । देवरेत्यामन्त्रणात् ।
१. 'वाच्यालंकारान्तरसंसृष्टः संसृष्टालंकारसंकीर्णः संकीर्णालंकारसंसृष्टश्चेति' ग. २. 'क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता । रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ॥' इति च्छाया.
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258