Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 231
________________ २२२ काव्यमाला। चं नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवति । अचे. तना अपि हि भावा यथायथमुचितरसभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् । तथा चेदमुच्यते 'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥ भावानचेतनानपि चेतनवचेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये खतत्रतया ॥' तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वमेतच महाकवीनां काव्येषु दृश्यते । अस्माभिरपि खेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव । स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति । रेसाद्यपेक्षया कवेर्गुणीभूतव्यङ्ग्यलक्षणोऽपि प्रकारस्तदङ्गतामवलम्बते प्राक् । यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च षइप्रज्ञादिगाथासु कासुचियङ्गयविशिष्टवाच्या प्राधान्यं त विद्यते येषाम् । 'यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्' इत्यपि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् । अपार इति । अनाद्यन्त इत्यर्थः । यथारुचि परिवृत्तिमाहशृङ्गारीति । शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् । अत एव भरतमुनिः ‘कवेरन्तर्गतं भावं' 'काव्यार्थान्भावयति' इत्या'दिषु कविशब्दमेव मूर्धाभिषिक्ततया प्रयुङ्क्ते । निरूपितं चैतद्रसखरूपनिर्णयावसरे । जगदिति । तद्रसनिमजनादित्यर्थः । शृङ्गारपदं रसोपलक्षणम् । स एवेति यदा वर्णनारसिको न भवति तदा परिदृश्यमानोऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहंमाध्यस्थ्यमात्रं किं किं वितरति तथापि कविवर्णनोपकारं विना लोकातिकान्तरसावादभुवं नौधिशेत इत्यर्थः । चारुखातिशयं यन्न पुष्णाति ततो नास्त्येवेति संबन्धः । खेष्विति विषमबाणलीलादिषु । हृदयवतीष्विति । 'अअलिआ' इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु । त्रिवर्गोपायो १. 'सति' क-ख. २. 'कविरेकः' ग. ३. 'द्यपेक्षायां' ग. १. 'मोहमयो व्यङ्ग्यमलौकिकं वितरति । तथापि कविवर्णनयारोहं विना' क-ख. २. 'नातिशेते' ग.

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258