Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 230
________________ ३ उक्ष्योतः] ध्वन्यालोकः । २२१ प्रकारोऽस्ति यत्र रसादीनामविप्रतिपत्तिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालंकारमर्थालंकारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते । तदिदमुक्तम् 'रसभावादिविषयविवक्षाविरहे सति । अलंकारनिबन्धो यः स चित्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा। तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ॥' ऐतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानींतनानां तु न्याय्ये काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते । रसादितात्पर्ये वक्तव्यः । अन्यस्य वो खकेलिवृत्तान्ततुल्यस्येहाभिधानायोगात् कविश्चेद्गोचरीकरोति नूनममुना प्रीतिर्जनयितव्या । सा चावश्यं विभावानुभावव्यभिचारिपर्यवसायिनीति भावः । किं त्विति । 'विवक्षा तत्परत्वेन नाङ्गिदेन कथंचन' इत्यादिर्योऽलंकारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसादिशून्यतेति । नैव यत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचिते मांस्पाकविशेषे । ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथा स्वादोऽकुशलकृतायामपि शिखरिण्यामिवेत्याशझ्याह-वाच्येत्यादि । अनेनापीति । पूर्वे सर्वथा तच्छून्यत्वमधुना तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो शिखरिणीति न तज्ज्ञानां चमत्कारः । अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः । अलंकाराणां शब्दार्थोभयरूपाणां निबन्ध इत्यर्थः । ननु ‘तचित्रमभिधीयते' इति किमनेनोपदिष्टेन । अकाव्यरूपं हि तदिति कथितम् । हेयतया तदुद्दिश्यत इति चेत् , घटे कृते कविन भवतीत्येतदपि वक्तव्यमित्याशय कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतनिरूपयतिएवञ्चेत्यादिना । परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको १. 'सामर्थ्येन कवि' ग. २. 'रसभावप्रतीतिः' क-ख. ३. 'यत्तु' ग. ४. 'यतश्च' क-ख. ५. 'विशृङ्खलं नितरां' ग. ६. 'अनवेक्ष्यैव.' ग. १. 'वासुकिवृत्तान्तस्येह' ग. २. 'भवति तथाखादोऽत्र' ग. २. ध्व० ला.

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258