Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२२०
काव्यमाला। प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काठ्ये उभे ततोऽन्यद्यत्तचित्रमभिधीयते ॥ ४२ ॥ चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ।
तत्र किंचिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ ४३ ॥ - व्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिसंजितकाव्यप्रकारः गुणभावे तु गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किंचिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यव्यङ्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि । अथ किमिदं चित्रं नाम यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलंकारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न संभवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य चाङ्गत्वं प्रतिपद्यते । विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः न च तदस्ति वस्तु किंचिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तस्य न स्यात् । कविविषयश्च चित्रतया कश्चिन्निरूप्यते । अत्रोच्यते-सत्यम् न ताहकाव्य
यत्तच्छ्न्यं तत्र का वार्तेति निरूपयितुमाह-प्रधानेत्यादिना । कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रबन्धादिचित्रतया प्रसिद्धमेव । तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः । आलेख्यप्रख्यमिति । रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः । अथ किमिदमिति । आक्षेपे वक्ष्यमाण आशयः । अत्रोत्तरम्-यत्रेति । आक्षिप्तस्याभिप्रायं दर्शयति-प्रतीयमान इति । अवस्तुसंस्पर्शितेति । कचटतपादिवनिरर्थकलं दशदाडिमादिवदसंबद्धार्थवं वेत्यर्थः । ननु मा भूत्कविविषय इत्याशझ्याहकविविषयश्चेति । काव्यरूपतया यद्यपि न निर्दिष्टेस्तथापि कविगोचरीकृत एवासौ - १. 'तु' ग. २. 'आलेख्यमिव' ग. ३. 'तावत्काव्यस्य' ग. ४. 'नापाद्यते' क-ख. ५. 'वाङ्गलं' ग. ६. 'अतो विभावलेन' क-ख. ७. 'तदुपादाने च' ग. ८. 'काव्यवाप्रकारः' क-ख. १. 'चेत्यर्थः' क-ख. २. 'व्यपदिष्टः' क-ख..
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258