Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उध्योतः]
ध्वन्यालोकः। यानुपयोगित्वं पृथगवभासित्वं चेति त्रयम् । तत्र रसादिप्रतीतिर्गुणवृत्तिरिति न केनचिदुच्यते न च शक्यते वक्तुम् । व्यायालंकारप्रतीतिरपि । तथैव वस्तु चारुत्वप्रतीतये खशब्दानभिधेयत्वेन यत्प्रतिपादयितुमिष्यते तयङ्ग्यम् । तच्च न सर्व गुणवृत्तेविषयः । प्रसिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपि च विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि कचिद्वाचकत्वाश्रयेण व्यवतिष्ठते । यथा विवक्षितान्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैकरूपमेव । कचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणैकरूपमेवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । माह-तत्रेति । न च शक्यत इति । लक्षणासामय्यास्तत्राविद्यमानवादिति हि पूर्वमेवोक्तम् । तथैवेति । न तत्र गुणवृत्तियुक्तत्यर्थः । वस्तुनो यत्पूर्व विशेषणं कृतं तद्याचष्टे -चारुत्वप्रतीतय इति । न सर्वमिति । किंचित्तु भवति । यथा'निःश्वासान्ध इवादर्शः' । इति यदुक्तम्-'कस्यचिद्भवनिभेदस्य सा तु स्यादुपलक्षणम्' इति प्रसिद्धितो लावण्यादयः शब्दा वृत्तानुरोधव्यवहारानुरोधादेवेति । यथा-'वदति बिसिनीपत्रशयनम्' इत्येवमादयः। प्रागिति प्रथमोहयोते 'रूढा ये विषयेऽन्यत्र' इत्यत्रान्तरे। (न सर्वमिति ।) यथास्माभिर्व्याख्यातं तथा स्फुटयति-यदपि चेति । गुणवृत्तेरिति पञ्चमी । अधुनेतररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकाद्गुणवृत्तेश्च द्वितीयादपि मिन्नं व्यञ्जकत्वमित्युपपादयति-वाचकत्वेति । चोऽवधारणे मिन्नक्रमः। अपिशब्दोऽपि । न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् । तेनायं तात्पर्यार्थःयदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति । एतदेव विभजते-व्यञ्जकत्वं हीति।प्रथमतरमिति प्रथमोड्योते ‘स च-' इत्यादिना प्रन्थेन। हेत्वन्तरमपि सूचयतिन. चेति । वाचकवगौणत्वोभयवृत्तान्तवैलक्षण्य ......तो हेतुः । तमेव प्रकाश
१. 'यथास्मिन्' क-ख. २. 'तदुभयाश्रयत्वाच' क-ख. ३. 'शक्यं ग. . . १. 'व्यवहारानुरोधैः' क-ख. २. 'वाचकत्वगुणवृत्तिविलक्षणैवेति' क-ख. ३. 'व्यवस्थानं' क-ख.
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258