Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 226
________________ ३ उद्योतः ] ध्वन्यालोकः । २१७ इत्यत्र व्याजस्तुतिरलंकार इति व्याख्यायि केनचित्तन्न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारखरूपमात्र पर्यवसायित्वेन सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य 'एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य । तस्यैवंविधवि - 1 कल्पपरिहारैकव्यापारत्वात् । न चायं श्लोकः कचित्प्रबन्ध इति श्रूयते येन तत्प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्मादप्रस्तुतप्रशंसेयम् । यस्मा - दनेन वाच्येन गुणीभूतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनित संमत्सर जनज्वरस्य विशेषज्ञमात्मनो न कंचिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्ते श्लोक इति प्रसिद्धिः । संभाव्यते च तस्यैव । यस्मात् 'अनध्यवसितावगाहनमनल्पधीशक्तिना प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव खदेहे जराम् ॥' इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव । अप्रस्तुतप्रशंसायां तया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः संभाव्या । नहि वीतरागो विपर्यस्तान्भावान्पश्यति । नह्यस्य वीणाक्कणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते । अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः संभवन्नेवार्थो वक्तव्यः । नहि तेजसीत्थमप्रस्तुतप्रशंसा संभवति - अहो धिक् कार्ण्यमिति । सा परं प्रस्तुतपरतयेति नात्रासंभव इत्याशङ्कयाह-न चेति । निःसामान्येति निजमहिमेति विशेषज्ञ I परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् । नन्वत्रापि किं प्रमाणमित्याशङ्क्याह - तथा चेति । ननु किमियतेत्याशङ्क्य तदाशयेन निर्वादतदीयश्लोकार्पितेनास्याशयं संवादयति - संभाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य संपादनम् । परमं यदर्थतत्त्वं कौस्तुभादि वा उत्तमं लब्धं यत्र । परीक्षितमपि न प्राप्तं सदृशं तथाभूतपरिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । एवंविध इति । परिदेवित विषय १. ' इत्ययं श्लोको व्याजस्तुत्यलंकार - तन्न चैतत् चतुरस्रम्' ग. २. समस्तसमत्स - रज्वरस्य' क - ख. १. 'विवेकान्ध्य मिति' ग. २. ' तस्यासंभावनम्' ग.

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258