Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 225
________________ २१६ काव्यमाला। राजानमपि सेवन्ते विषमप्युपभुञ्जते । रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥' इत्यादौ वाच्यव्यङ्गययोश्च प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः येन ध्वनिगुणीभूतव्यङ्ग्ययोरलंकाराणां चासंकीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालंकारविषय एव व्यामोहः प्रवर्तते । तथा हि । 'लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः खच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि खयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्त, तन्वता ॥' दात्मकशान्तरसप्रतीतिरस्ति तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्ग्यत्वसंभाव्यवविपरीतकारितादि तस्यैवानुयायिनश्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन च स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पष्टमेव गुणीभूतम् । विवेकदर्शना चेयं न निरुपयोगेति दर्शयति-वाच्यव्यङ्ग्ययोश्चेति । अलंकाराणां चेति । यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् । अन्यथा त्विति । यदि प्रयत्नवता न भूयत इत्यर्थः । व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानमित्येवकाराभिप्रायः । द्रविणशब्देन सर्वखप्रायलमनेकवकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि योग्यो यः संपद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधिर्न विवेकलेशोऽप्युदभूदिति परमस्य प्रेक्षावत्त्वम् । अत एवाह-क्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषापीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् । कोऽर्थ इति । न खात्मनो न लोकस्य निर्मितस्येत्यर्थः । तस्येति रागिणः । वराकी हतेतिकृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वा निर्जातजातिविशेषे शकुन्तलादौ किमियं खसौभाग्याभिमानगर्भा उत स्तुतिगर्भोक्तिर्न भवति । वीतरागस्य वा अनादिकालाभ्यस्तरागवासनावासित- १. 'हन्त' ग. २. 'महान्वीकृतः' क-ख. ३. 'खच्छन्दस्य सखीजनस्य वसतश्चिन्तानलो दीपितः' क-ख. ४. 'स्वगुणानुरूपरमणाभावात्' ग. १. 'संभावित्व' क-ख. २. 'उत्प्रेक्षावत्त्वम्' क ख. ३. 'गर्भा चोक्तिर्न' क-ख..

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258