Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 207
________________ १९८ काव्यमाला । वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थ संबन्धवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषममिदधता नियमेनाभ्युपगन्तव्यः । तदनभ्युपगमे हि तस्य शब्दार्थसंबन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने निर्विशेषत्वं स्यात् । तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपेधिकव्यापारान्तराणां सत्यपि खाभिधेयसंबन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानामपरित्यक्तखखभावानामपि सामभ्यन्तरसंपात संपादितौपाधिकव्यापारान्तराणां विरुद्ध क्रियत्वम् । तथा हि हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदद्यमानमानसैर्जनैरालोक्यमानानां सतां संतापकारित्वं प्रसि द्धमेव । तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसंबन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किंचिद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति स च व्यङ्ग्य एव न त्वभिधेयः । तेन सहाभिधानस्य वा रूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति — स चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लक्ष्यते । विपरीतलक्षणातो वा उत्पत्तिः रूढ्या वा औत्पत्तिकशब्दो नित्यपययः । तेन नित्ययोः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्या किंचित्करत्वात्तन्निबन्धनं पौरुषेयेषु वाक्येषु पदप्रामाण्यान्न सिध्येत् । प्रतिपत्तुरेव हि यदि तथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् । अपौरुषेये हि वाक्ये प्रतिपत्ति (तृ) दौरात्म्यात्तथा स्यात् । ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता । नहि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह-दृश्यत इति । प्राधान्येनेति । यदाह - एवमयं पुरुषो वेदेति भवति प्रत्ययः न त्वेवमर्थ इति । तथा प्रमाणान्तरदर्शनमत्र बाध्यते । ननु शब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् । तेन १. 'वाचकत्वाप्रकारता' ग. २. 'रोपितोपाधिव्यापार' ग. १. 'वातूत्पत्तिः रूढा वा' क, 'पर उत्पत्तिकशब्दो' ग. २. 'पौरुष' क- ख. ३. ‘प्रमाणान्तं' क, 'प्रामाण्यं' ग. ४. 'अङ्गुल्यर्पणवाक्यादौ' क-ख.

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258