Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उड्योतः] ध्वन्यालोकः।
१९९ च्यवाचकतालक्षणसंबन्धाभावात् । नन्वनेन न्यायेन सर्वेषामेवालौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामेवानेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत् । किं तु वैऋभिप्रायप्रकाशनेन यदि व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् । ननु वाचकत्वान्न भिद्यते, व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन व्यङ्गयस्य व्यवस्थितिः । तद्व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् । यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं यत् । किंतु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य न प्रयोजकम् । व्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषध्वनिलक्षणे नातिव्याप्तिने चाव्याप्तिः । तस्माद्वाक्यतत्त्वविदां मते न तावयञ्जकलक्षणः शाब्दो व्यापारः (न) विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते ।
सहेति । अनियततया नैसर्गिकवाभावादिति भावः । नान्तरीयकतयेति । गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेत आनयनादिक्रियायोग्यो न खमिप्रायमात्रेण किंचित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यत्त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते अपि तु प्रतीतिविश्रान्तिकारिणी। सा चाभिप्रायनिष्ठवे नाभिप्रेतवस्तुपर्यवसाना । नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह । एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति-परिनिश्चितेति । परिनिश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया निरुपपत्यंशं विद्यार्थसंस्काररहितं शब्दाख्यं प्रकाशपरामर्शनखभावं ब्रह्म व्यापकत्वेन बृहद्विशेष. शक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् । यै (ते) रिति । एत. दुक्तं भवति–वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किंचिदिच्छन्ति तत्र का कथा वाचकत्वव्य'. १. 'वभिप्रायविस्पष्टार्थप्रतिपादनेन' ख. २. 'यदिदं' ख. ३. 'तत्तु वाचक' क, 'यत्तु वाचक' ख. ४. 'न विवक्षितत्वेन यस्य तु' क-ख. ५. 'शब्दार्थाभ्यामेव' क-ख. ६. 'प्रकाशमानं सत्' क-ख. ७. 'तत्तु यथादर्शितं' क-ख.
१. 'नयनानुयानाद्यु' क, 'न नयनाद्यु' ग. २. 'निष्ठतयैव' क, 'निष्ठतैब' ग. ३. 'इत्याशङ्कयाह' क-ख. ४. 'गलितप्रपञ्चतया विद्यारहितं शब्दार्थ ग. 'बृहद्विश्वनिर्भर' क-ख.
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258