Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 209
________________ काव्यमाला । कृत्रिमशब्दार्थसंबन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिव निर्विरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम् किमिदं स्वाभाविकं शब्दानामाहोखित्सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरासाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः । अलौकिके ह्यर्थे तार्किकाणामभिनिवेशाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुरादिष्वशेषलो केन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । नहि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां यत्सर्वेषामनुभवसिद्धं तत्केनाभिश्रूयते (पहूयते ? ) । अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा २०० ञ्जकत्वयोः । अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । एतच्च प्रथमोद्दयोते वितत्य निरूपितम् । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य प्रमाणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह- कृत्रिमेति । कृत्रिमः संकेत - मात्रस्वभावः परिकल्पितः शब्दार्थयोः संबन्ध इति ये वदन्ति नैयायिक सौगतादयः । यथोक्तम्—न सामवायिकत्वाच्छब्दार्थप्रत्ययस्येति तथा शब्दार्थसंकेतितं प्राहुरिति । अर्थान्तराणामिति दीपादीनाम् । नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तेच विमतिपदमित्याशक्याह - निर्विरोधश्चेति । अविद्यमानो विरोधो यस्य विरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य । तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः । अनुभवसिद्धं च न प्रतिक्षेप्यं यथा वाचकत्वम् । ननु तत्राप्येषां विमतिः । नैतत् । नहि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह – वाचकत्वे हीति । नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्कयाह - व्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः सांकेतिकत्वं चक्षुरादि तैस्यायोग्यतेति दृष्टा काममस्तु संशयः शब्द्स्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चितैकरूपे कः संशयस्यावकाश इत्यर्थः । नैतन्नीलमिति नीले हि न विप्रतिपत्तिः । अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदमतितुच्छ मिति तत्सृष्टौ लौकिक्य एव विप्रतिपत्तयः । वाचकानामिति । ध्वन्युदाहरणेष्विति भावः । अश ब्दमिति । अभिधाव्यापारेणास्पष्टमित्यर्थः । रमणीयमिति । यगोप्यमानतयैव सु १. ‘हि’ ग. २. ‘निवेशः प्रवर्तते' ग. ३. 'द्रूयते' ग. ४. 'व्यवहारास्तथा व्यवहारानिबद्धाश्चानिबद्धाश्च' क-ख. १. ‘शब्दः संकेतितानां' क ख २. 'न च विमत्यापादनं' क-ख. ३. 'वा बोधात्मको' क-ख. ४. ‘च प्रक्षेप्यं' क ख ५. 'कस्यानादिर्योग्यतेति' क- ख.

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258