Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 219
________________ २१० काव्यमाला। लक्ष्यते तदेवं व्यङ्गयांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽलंकाराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य रूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनैव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् । आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालंकाराः । गुणीभूतव्यङ्गयस्य च प्रकारान्तरेणापि व्यङ्गयार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनि निभूषितश्च' इत्येकेन दीपस्थानेन दीपनाद्दीपकमत्रानुप्रविष्टम् । प्रदीपसमानतया साधारणधर्माभिधानं ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारुखातिशयवतामित्यर्थः । सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । 'गौर्वाहीकः' इति । श्लेषः द्विर्वचने तन्त्रात्मकः। यथासंख्यं सूचीमालान्तरेति (?)। दीपकं 'गामश्वम्' इति । संदेहः 'स्थाणुर्वा स्यात्' इति । अपहृतिः 'नेदं रजतम्' इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । तुल्ययोगिता 'स्थाध्वोरिच्च' इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि । यथा पदसंज्ञायामन्तवेचनम् । 'अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न' इति । आक्षेपश्च उभयत्रविभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्व निषेधनात्प्रतिषेधेन समीकृत इति न्यायात् । अतिशयोक्तिः 'समुद्रः कुण्डिका' 'विन्ध्यो वर्धितवानर्कवागृह्णात्' इति । एवमन्यत् । न चैवमादि काव्योपयोगीति । गुणीभूतव्यङ्ग्यतैवात्रालंकारतायां मर्मभूतालक्षितात्सुष्टु लक्षयति । तथा सुपूर्ण कृत्वा लक्षिताः संगृहीता भवन्ति । अन्यथा ववश्यमव्याप्तिर्भवेत् । तदाह-एकैकस्येति । न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपवं चारुताहीनानामुपपद्यते । चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यवसामान्यलक्षणम् । व्यङ्ग्यस्य च चारुवं रसाभिव्यक्तियोग्यतात्मकम् , रसस्य स्वात्मनैव विश्रान्तिधाम्नसदात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् । अनन्ता हीति । प्रथमोध्योत एव व्याख्यातमेतत् 'वाग्विकल्पानामानंन्त्यात्' इत्यत्रान्तरे । ननु सर्वेष्वलंकारेषु नालंकारान्तरं व्यङ्ग्यं चकास्ति । तत्कथं गुंणीभूतव्यङ्गयेन लक्षितेन सर्वेषां संग्रहः । मैर्वम् । वस्तुमात्रं वा रसो वा व्यङ्गयं यद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतेति । गुणीभू. तव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य । यदि वेत्थमवतरणिका-ननु गुणीभूतव्यङ्ग्येनालंकारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्त. १. 'उपलक्ष्यते' क-ख. २. 'रूपकाद्यलंकाराः' ग. ३. 'उक्तानां' ख; 'उक्कानुयुक्तानां ग. १. 'प्रदीयमानतया' ग. २. 'पदम्' क-ख. ३. 'व्यङ्ग्यवं च' क-ख. ४. 'चैव' क-ख. ५. 'सह' ग.

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258