Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 221
________________ २१२ काव्यमाला। अर्थान्तरगतिः काका या चैषा परिदृश्यते । सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥ ३९ ॥ या चैषा काका कचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा-वस्था भवन्ति मयि जीवति धार्तराष्ट्राः' । यथा वा'आम असइओ ओरम पइव्वए ण तुएँ मलिणिअं सीलम् । किं उण जणस्स जाअ व्व चन्दिलं तं ण कामेमो ॥' नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते केवलेन नान्यत्र व्यग्रेणैकान्तावस्थानपूर्व सर्वेन्द्रियोपसंहारेण भावयितुं शक्या अर्दा उचिताः । यतः केनापि नान्येनोपायेन शक्यनिरूपणाः । गुणीभूतव्यङ्ग्यस्योदाहरणा(प्रकारा)न्तरमप्याह-अर्थान्तरेति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः । तत्र हि साकाङ्क्षनिराकासक्रमेण पठ्यमानोऽसौ शब्दः.............. ......लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः । तेन हृदयस्य वस्तुप्रतीतेरीषद्भूमिः काकुः । तया तत्रार्थान्तरगतिः स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः । अत्र हेतुर्व्यङ्ग्यस्य तत्र गुणीभाव एव भवति । अर्थान्तरगतिशब्देनात्र काव्यमेवोच्यते । ततःप्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं प्रतीतिद्वारेण वा काव्यस्य निरूपितम्। अन्ये लाहुः-व्यङ्ग्यस्य गुणीभावेऽयं प्रकार अन्यथा तु तत्रापि ध्वनित्वमेवेति तच्चासत् । काकुप्रयोग एव शब्दस्य स्पष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात् । काकुर्हि शब्दस्यैव कश्चिद्धर्मस्तेन स्पष्टं 'गोप्यैवं गदितः सलेशं' इति, 'हसन्नेत्रार्पिताकूतं' इतिवच्छब्देनैवानुगृहीतम् । अत एव 'भम धम्मिअ' इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव । व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य । खस्था इति, भवन्ति इति, मयि जीवति इति धार्तराष्ट्रा इति साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता काकुर्न संभाव्योऽयमर्थोऽत्यर्थमनुचितश्चेत्य, व्यङ्ग्यमर्थ स्पृशन्ती तेनैवोपकृता सती क्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैव धत्ते । (आमेति । 'भवामोऽसत्य उपरम पतिव्रते न त्वया मलिनितं शीलम् । किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥' इति च्छाया।) आम असइओ इत्यभ्युपगमकाकुः साकाटोपहासा । उपरमेति निराकाङ्क्षतया सूचनगर्भ । परिग्रहेति ( पतिव्रते इति) दीप्ता सितयोगिनी(१) । त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता चन्दिलं नापितमेव पामरप्रकृतिं न कामयामहे इति निराकासगद्गदोपहासगर्भा । एषा हि कयाचिन्नायिकानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्य स्पष्टतां तावत् १. 'गुणीभावव्यङ्ग्यलक्षणमिमं' क-ख. ___१. 'निराकाङ्क्षादि' क-ख. २. 'आश्रित्य' ग. ३. 'ननु' ग. ४. 'काव्यं ग. ५. 'व्यनयोक्तत्वेन' क.ख. ६. 'असंभाव्य' ग. ७. 'गर्वा' ग. ८. 'निर्गद्गदोपहास' ग.

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258