Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उक्ष्योतः] ध्वन्यालोकः।
२०९ धान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालंकारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्गयरूपता । अयं च प्रकारोऽन्येषामप्यलंकाराणामस्ति तेषां न सर्वविषयः । अतिशयोक्तेस्तु सर्वालंकारविषयोऽपि संभवतीत्ययं विशेषः । येषु चालंकारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्गयस्यैव विषयः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादेव । तत्र च गुणीभूतव्यङ्गतायामलंकाराणां केषांचिदलंकारविशेषगभेतायां नियमः । यथा व्याजस्तुतेः प्रेयोलंकारगर्भत्वे । केषांचिदलंकारमात्रगर्भतायां नियमः । यथा संदेहादीनामुपमागर्भत्वे । केषांचिदलंकाराणां परस्परगर्भतापि संभवति । यथा दीपकोपमयोः । तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि केदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि 'प्रभामहत्या शिखयेव दीपः' इत्यादौ स्फुटैव दीपकच्छाया
चार एवायम् । ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति यदुक्तमैलंकाराणां खीकरणं तदेव त्रिधा विभजते-तस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा'अपरैव हि केयमत्र' इति । अत्र रूपकेऽप्यतिशयशब्दस्पर्श एव । अस्य त्रैविध्यस्य विषयविभागमाह-तत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् । नन्वतिशयोक्तिरेव चेदेवंभूता तत्किमपेक्षया प्रथमं तावदतिक्रमः सूचित इत्याशङ्कयाह-अयं
चेति । योऽतिशयोक्तौ निरूपितोऽलंकारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रथममिति केनातिशयेनोक्तमित्याशङ्कयाह तेषामिति । एवमलंकारेषु तावद्यङ्ग्यस्पर्शीऽस्तीत्युक्खा तत्र किं व्यङ्ग्यत्वेन भातीति विभाग व्युत्पादयति-येषु चेति । रूपकादीनां पूर्वमेवोकं स्वरूपं निदर्शनायास्तु क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनं इष्टा निदशनेति । उदाहरणम्:-'अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥' प्रेयोलंकारेति । चाटुपर्यवसायिखात्तस्याः । सा चोदाहृतैव द्वितीयोड्योतेऽस्माभिः । उपमागर्भल इत्युपमाशब्देन सर्व एव तद्विशेषा रूपकादयः । अथ चौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । 'तया स पूतश्च १. 'स्थापनात्' क-ख. २. 'काचित्' ग. ३. 'इत्यादौ विषये' ग. १. 'अलंकारान्तर' क-ख. २. 'स्पृश' ख; 'स्पृहा' ग. ३. 'अतिशयोक्तेः' ग.
१९ ध्व. लो.
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258