Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२०२
काव्यमाला। प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दखरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकारणव्यवहारनिर्बन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः । स च द्विविधः वाच्यो व्यङ्ग्यश्च । प्रयोक्ता हि कदाचित्वशब्देनार्थ प्रकाशयितुं समीहते कदाचित्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया खरूपेण प्रकाशते अपि तु कृत्रिमेणाकृत्रिमेण वा संबन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दर्लिङ्गतया प्रतीयते न तु खरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यवहारः स्यात्तच्छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् । धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश्वार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य संबन्धी भवत्येव । साक्षादसाक्षाद्भावो हि संबन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रागेव दर्शितम् । तस्माद्वक्राभिप्रायरूपव्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्नभिप्रायरूपे च वाचकत्वेनैव व्यापारः संबन्धान्तरेण वा । न तावद्वाचकत्वेन । यथोक्तं प्राक् । संबन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं
यिषायां कर्मभूतोऽर्थस्तत्र शब्दः कारणत्वेन विवक्षितः न वसावनुमेयः । तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तत्र शब्दस्य कैरणत्वेनैव लिङ्गस्येतिकर्तव्यता पक्षधर्मग्रहणवादिका नास्ति अपि खन्यैव संकेतस्फुरणादिका । तन्न । तत्र शब्दो लिङ्गमितिकर्तव्यता च द्विधा । एकयामिधाव्यापारं करोति द्वितीयया व्यञ्जनाव्यापारम् । तदाह-तत्रेत्यादिना। कयाचिदिति । गोपनकृतसौन्दर्यादिलाभाभिसंधानादिकयेत्यर्थः । शब्दार्थ इति । अनुमानं हि निश्चयखरूपमेवेति भावः । औपाधि
१. 'सिताव्यवहितमपि' क-ख. २. 'निबन्धनी' क-ख. ३. 'शब्दात्' ग. ४. 'व्यापारः' क-ख. ५. 'व्यङ्ग्यव्यञ्जकत्वस्य' क-ख. ६. 'रूप एव व्यङ्ग्यो' क-ख. ७. 'अभिप्रायरूपेऽनमिप्रायरूपे वा' क-ख.
१. 'यिषायाः'क-ख. २. 'कारणखयो।' क; 'करणत्वयैव' ग.३. 'स्मरणादिका'क-ख.
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258