Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 215
________________ २०६ काव्यमाला। दाहृतम् 'अनुरागवती संध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणभावः । यथोदाहृतम्—'संकेतकालमनसं' इत्यादि । रसादिरूपव्यङ्गयस्य गुणीभावे रसवदलंकारो दर्शितः । तंत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवाहप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालंकारस्य गुणीभावे दीपकादिर्विषयः । तथा प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः। ये च तेषु प्रकारोऽयमेवं योज्यः सुमेधसा ॥ ३६॥ ये चैते परिमितखरूपा अपि प्रकाशमानास्तथा रमणीयाः सन्तो विवे रीकृतनदी विषयेयमुक्तिरीति सहृदयाः । तत्रापि चोक्तप्रकारेणैव योजना। यदि वा नदीसंनिधौ नानावतीर्णयुवतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणता व्यङ्ग्यस्य । उदाहृतमिति । एतच्च प्रथमोध्योत एव निरूपितम्। अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणात्यन्ततिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयखिप्रभृतयोऽलंकारा उपलक्षिताः । नन्वत्यर्थं प्रधानभूतस्य रसादेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्कय प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति-तत्र चेति । रसवदाद्यलंकारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्यालंकारात्मनोऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति-व्यङ्गयालंकारस्येति । उपमादेः । एवं प्रकारत्रयस्यापि गुणीभाव........ बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह-तथेति । प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थापेक्षकत्वत्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः । लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जामाता हरिः । यः समस्तभोगापवर्गदानसततोद्यमीः । तथा गृहिणी गङ्गा । यस्याः सममिलषणीये सर्वस्मिन्वस्तुन्यनपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ । अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठथुपभोगलक्षणं मुख्यं फलमिति त्रैलोक्यसारभूतता प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमभ्येति एवं निरैलंकारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालंकारस्याप्यनेनैव १. 'रसवदलंकारविषयः प्राक्प्रदर्शितः' क-ख. २. 'तत्र च रसानामाधि' क-ख. ३. 'प्रकाशमानविततार्थ' क-ख. १. क-ख-पुस्तकयोः 'अलंकारात्मनो' इत्यारभ्य 'गुणीभाव...' इत्यन्तं पाठस्युटितः. २. 'अनुभवति' क-ख. ३. 'निरलंकारं' क-ख..

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258