Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उद्योतः ]
ध्वन्यालोकः ।
१९५
"
द्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतखार्थः यथा 'अनिर्माणवकः' इत्यादौ यदा वा स्वार्थ मंशेनापरित्यजंस्तत्संबन्धद्वारेण विषयान्तरमाका - मति यथा— 'गङ्गायां घोषः' इत्यादौ तदा विवक्षितवाच्यत्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोर्द्वयोरपि खरूपप्रतीतिस्र्थावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोघी । स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते । तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारे नियमेनैव न शक्यते वक्तुम् । अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव । यतोऽयमपि न दोषः । यस्मादविवक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं व्ययं विना न व्यवतिष्ठते । गुणवृतिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमा
मेदद्वयेन च स्वीकृतमविवक्षितवाच्यं भेदद्वयात्मकमिति सूचयति । अत एवात्यन्ततिर - स्कृत ... विषयान्तरमाश्रय (काम) ति चेत्यनेन शब्देन तदेव मेदद्वयं दर्शयति — अत एव चेति । यत्तु एव तत्रोक्तहेतुबलाद्गुणवृत्तिव्यवहारो न्याय्यस्तत इत्यर्थः । युक्तिं लोकप्रसिद्धिरूपामबाधितां दर्शयति-स्वरूपमिति । उच्यत इति प्रदीपादिरिन्द्रि यादेस्तु कारणत्वं न व्यञ्जकत्वं प्रतीत्युत्पत्तौ । एवमभ्युपगमं प्रदशर्याक्षेपं दर्शयतिअविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन्गौणलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भासत इत्यर्थः । एतत्परिहरति — अयमपीति । गुणवृत्तेर्यो मार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राकक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतम् । ताद्रूप्याभावे हेतुमाह – गुणवृत्तिरिति । गौणलाक्षणिक रूपोभयी अपीत्यर्थः । ननु व्यञ्जकत्वे कैथं शून्या गुणवृत्तिर्भवति । यतः पूर्वमेवोक्तम् — 'मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥' इति । नहि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्यधायीत्याशयाभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह — व्यञ्जकत्वं चेति । वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधा
१. ‘संशयेन परित्यजन्' ख. २. 'एव हि परावभासमानो' क-ख. ३. 'नियमेन वै शक्यते' क-ख. ४. 'कर्तुम्' क-ख. ५. 'हेतुकं' क-ख.
१. 'स्वार्थशब्देन ' क- ख. २. 'सूचयति' कख. ३. 'यतो न' क-ख. ४. 'मेदद्वयं' क-ख. ५. 'न' ग.
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258