Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 196
________________ ३ उद्योतः ] ध्वन्यालोकः । १८७ भावी क्रमः । तत्रापि विवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यमय प्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तर्युक्त्या कचिल्लक्ष्यते क्वचिन्न लक्ष्यते । तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कबिडूयात् — किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम् । नहि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्यापि व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्वसिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्रागेव प्रतिपादिता तत्सिद्ध्यधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः । सत्यमेवैतत् । प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः इत्यर्थः । विचारो न कृत इति । नामधेयनिरूपणद्वारेणेति शेषः । सहभावस्य शङ्कितुमप्यत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्यादीनामिति वृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनिय - त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति — तस्मादिति । अभिधानस्य शब्दरूपस्य पूर्वं प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्रभवान् – 'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि । 'अतो निर्णीतरूपत्वात्किँमाख्येत्यभिधीयते' । अत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वाकमो न लक्ष्येतापि । उयोतारम्भे यदुक्तं व्यञ्जकमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोयोते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह—तदेवमिति । कश्चिदिति मीमांसकादिः । किमिदमिति वक्ष्यमाणचोदकस्याभिप्रायः । प्रागेवेति प्रथमोध्यो अभाववादनिराकरणे । अतश्च व्यञ्जकसिद्ध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्कयत अपि तु हेत्वन्तरैस्तस्य बाधितत्वादिवि भावः । तदाह – तत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थस्तस्य यदि व्यय इति नाम कृतम् वाच्य इत्यपि कस्मान्न क्रियते । अवगम्यमानत्वेन हि शब्दार्थवं तदेव वाचकत्वम् । अभिधा हि यत्पर्यन्ता तत्रैवामिधायकत्वमुचितम् । तत्पर्यन्तता (मं)मिधानभूते तस्मिन्नर्थं इति मूर्धाभिषिक्तत्वं ध्वनेर्निरूपितम् । तत्रैवाभिधाव्यापारेण १. ‘तत्र त्वविवक्षित' क ख २. 'युक्तेः' ग. १. 'सर्वस्याभिधेयवृत्ति' क- ख. ४. व्यङ्ग्य इति नाकूतं वाच्यमित्यपि • २. 'निर्ज्ञात' ग. ३. 'किमाहेत्यमि' क्र- ख. • भिमतस्यापि कस्मात् 'ग. ५. 'सर्वा' क ख.

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258