Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१८८
काव्यमाला ।
सिद्धिः कृता स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः । तत्परत्वाद्वाचकत्वस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापारान्तरकल्पनया । तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः । या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः । अत्रोच्यते — यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः । यस्मात्तौ द्वौ व्यापारौ भिन्नवियौ भिन्नरूपौ च प्रतीयेते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः । ततः खपरव्यवहारो वाच्यगम्ययोरपह्नोतुमशक्यः । एकस्य संबन्धित्वेन प्रतीतेरपरस्य संबन्धिसंबन्धित्वेन । वाच्यो ह्यर्थः साक्षाच्छब्दस्य संबन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः संबन्धिसंबन्धी । यदि च स्वसंबन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तरव्यवहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । नहि यैवाभिधानशक्तिः सैवावगमनशक्तिः । अवाच
1
भवितुं युक्तम् । तदाह – यत्र चेति । तत्प्रकाशिन इति । तद्यन्याभिमतं प्रकाशयत्यवश्यं यद्वाच्यं तस्येति । उपायमात्रमित्यनेन साधारणयोक्ता भाहं प्राभाकरं वैयाक - रणं च पक्षं सूचयति । भाट्टमते हि - ' वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् ॥' इति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्घो व्यापारो निमित्तिनि वाक्यार्थे । पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तुं सोऽपि पारमार्थिक इति विशेषः । एतच्चास्माभिः प्रथमोध्योत एव वितत्य निर्णीत'मिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मतत्रयं पूर्वपक्षे योज्यम् । अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः । वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थोऽर्थान्तरेण च क्रमेणेति विषयतः । ( नेनु तस्माच्चेदसौ गम्यतेऽर्थः कथं तर्ह्यच्य..... ....... । नो चेत्स तस्य न कश्चिदिति को विषयार्थः । शङ्कयाह - न चेदिति । तस्मादिति ) । व्यवहार एवेति । एवकारो भिन्नक्रमः । नैव स्यादित्यर्थः । तावता न साक्षादात्म संबन्धित्वं तैरयुक्तार्थस्यैक एवामिधालक्षणो व्यापार इत्याशङ्कयाह - रूपभेद इति । तंत्र भिन्नेऽपि विषये............क्षशब्दादेर्बह्वर्थोऽपीति प्रसिद्धमेव दर्शयति-नहीति । विप्र
१. ‘त्वसौ न' क-ख. २. कोष्ठकान्तर्गतः पाठः क ख पुस्तकयोर्नास्ति. ३. 'यावता' क्र. ४. 'ननु' ग.
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258