Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उयोतः
ध्वन्यालोकः। कस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्दस्यापि चेष्टादेरर्थाविशेषप्रकाशनप्रसिद्धेः । तथाहि 'वीडायोगान्नतवदनया-' इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तमाद्भिनविषयत्वाद्भिन्नरूपत्वाच्च खार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य । यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तहीदानीमवगमनस्याभिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यामाभिरिष्यत एव । ततु व्यङ्गयत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसंबन्धयोग्यत्वेन च तस्यार्थान्तरस्य च प्रतीतेः । शब्दान्तरेण खार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता । न च पदार्थवाक्यार्थ
तिषिद्धमनु प्रतिहेतुमाह-अवाचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्यापि गमकत्वमपि न स्यात् गमकत्वेनैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिके चाधोवक्रवकुचकम्पनबाष्पावेशादौ तस्यावाचकस्याप्यवगमकारिखदर्शनादवगमकारिणोऽपि वाचकत्वेन प्रसिद्धलादिति तात्पर्यम् । एतदुपसंहरति-तस्माद्भिन्नेति । न तहीति । वाच्यत्वे ह्यमिधाव्यापारविषयता न तु व्यापारमात्रविषयता । तथात्वे तु सिद्धसाधनमित्येतदाह-शब्दव्यापारेति । ननु गीतादौ मा भूद्वाचकवमिह बर्थान्तरेऽपि..........पकत्वमेवोच्यते । किं हि तद्वाचकत्वं स........ शङ्कोच्यते इत्याह-प्रसिद्धति । (शब्दान्तरेण) तस्यार्थान्तरस्य यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता । वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं यथा तस्यैव शब्दस्य खार्थे । तदाह-वार्थाभिधायिनेति । वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति तदाह-प्रसिद्धति । प्रसि
द्धेन वाचकतयाभिधानान्तरेण यः संबन्धो वाच्यत्वं तदेव यत्र तद्योग्यत्वं तेनोपलक्षितस्य । न चैवंविधं वाचकसमर्थं प्रति शब्दस्येहास्ति नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपत्वम् । वाच्यत्वं यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशक्ष्याह-प्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकव्यापारेणेति विलक्षण एवासौ व्यापार इति यावत् । नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशझ्याह-न चेति । कैश्चिदिति वैयाकरणैः । थैरपीति भट्टप्रमृ
१. 'अवगमनीयस्य' क-ख. २. 'विषयत्वं' क-ख. ३. 'श्लेषान्तरेण' क.
१. 'तदवगमकमिन्नोऽपि' ग. २. 'वाच्ये क. ३. 'इत्याशझ्याह' क-ख अत्र टीकायां त्रिष्वपि पुस्तकेष्वतीव पौर्वापर्यमस्ति. अस्माभिस्तु बहुपुस्तकानुरोधात्तथैव स्थापितम्.
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258