Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 186
________________ १७७ ३ उड्योतः] ध्वन्यालोकः । यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्यः । वीरे च तस्यान्तर्भावः कर्तुं युक्तः । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाहंकारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं परिकल्प्यते तद्वीर सुखं तस्य यः स्थायीभूतस्य परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले संभाव्यत एव । अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रसज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पैयुदासे खस्मत्पक्ष एवायम् । अन्ये तु 'खं खं निमित्तमासाद्य शान्तादुत्पद्यते रसः । पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥' इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वभावं शान्तमाचक्षाणा अनुपजातविशेषान्तरं चित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षाद्दरम् । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानाम् । यथोक्तम्-'वीतरागजन्मादर्शनात्' इति । प्रतीयत एवेति मुनिनाप्यङ्गीक्रियत एव "क्वचिच्छमः' इत्यादि वदता । न च तदीयापर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभवाभावेनाप्रतीयमानता स्यात् । 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु प्रशान्तवाहिता,' 'संस्कृतान्तश्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेर्दुष्टैवेत्यनुभवसद्भावाद्यमनियमादिमध्यासंभाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव । ननु न प्रतीयते । नास्य विभावादयः सन्तीति चेत्, न । प्रतीयत एव तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहादध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव व्यभिचारिसद्भावः स्थायी च दर्शितः । ननु तत्र हृदयसंवादाभावादस्यमानतैव नोपपन्ना । क एवमाह नास्तीति । यतः प्रतीयत एवेत्युक्तम् । ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्यवतामिति तदाह-यदि नामेति । ननु धर्मप्रधानोऽसौ वीर एवेति संभावयमान आह-वीरे चेति । तस्येति वीरस्य । अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेति । उत्साहमयत्वनिरीहखेनात्यन्तविरुद्धयोरपीति च शब्दार्थः । वीररौद्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानरूपं च धर्मार्थोपयोगिलम् । नन्वेवं दयावीरो धर्मवीरो दानवीरो १. 'सर्वलोक' ग. २. 'न च वीरेतरस्यान्तर्भावः' ग. १. 'तच्चा' क-ख. २. 'पर्युदासोऽपि सत्पक्ष एव' क-ख. ३. 'मध्यसद्भावमान' क-ख. ४. 'घनस्य' क-ख.

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258