Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१८४
काव्यमाला।
अत्रापि ब्रूमः-प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किं तु तव्यञ्जकत्वं तेषां कदाचित्खरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव खरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिशक्तिनिबन्धनम् । अथ तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव । स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यदि च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यवच्छिन्नशब्दमात्रसाध्या रसादिप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च खयमव्युत्पन्नानां प्रतिपत्तॄणां काव्यमात्रश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः उपयोगे वा न सहभावः । येषामपि खरूपविशेषप्रती
दृश्यते तदेतदाह-न चेति । तेषामिति गीतादिशब्दानाम् । आदिशब्देनास्य वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । 'यत्रार्थः शब्दो वा-' इति ह्यवोचामेति भावः । न तहीति । तत्तद्गीतपदे चार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तथापेक्षणीया । सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् । तदाह-अथेति । तदिति वाचकशक्तिः । वाच्यवाचकभावेति । सैव वाचकशक्तिरित्युच्यते । एतदुक्तं भवति-मा भूद्वाच्यं रसादिव्यञ्जकम् , अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्ययं वाच्यप्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरित्यत्राप्यनुपयोगिनी । यत्तु क्वचिच्छृतेऽपि काव्ये रसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्ख्याह-यदि चेति । प्रकरणावगमो हि क उच्यते किं वाक्यान्तरसहायत्वम् , अथ वाक्यान्तराणां संबन्धिवाच्यम् । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्थभेदेन रसोदयः । स्वयमिति । प्रकरणमात्रमेव परेण केनचियेषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवती वाच्यप्रतीतिमपहृत्यादृष्टसद्भावाभावी शरणत्वेनाश्रितौ मात्सर्यादधिकं किंचित्पुष्णीत इत्यभिप्रायः । नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम् , सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षण इत्याशङ्कयाह-सहेति । एवं ह्युपयोग इति संज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः । उपकारिणो हि पूर्वभावितेति त्वयाप्यङ्गीकृतमित्याह—येषामिति । त्वदृष्टान्तेनैव वयं वाच्यप्रतीतेरपि प्रतिपादयिष्याम
१. 'कारणाद्यव' ख. २. “विषय' क-ख. ३. 'प्रतीत्यनुनिष्पन्नं' क-ख. ४. 'प्रकाराद्यवच्छिन्नमात्र' क-ख. ५ 'प्रकाराणां' क-ख.
१. 'ततश्च गीतवादे' क-ख. २. 'सैव हि वाचकशक्तिरित्युच्यते' क-ख. ३. 'समर्थयिष्यामहे' क-ख.
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258