Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उक्ष्योतः] ध्वन्यालोकः।
१८१ विज्ञायेत्थं रसादीनामविरोधविरोधयोः। . विषयं सुकविः काव्यं कुर्वन्मुह्यति न कचित् ॥ ३१॥ इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वन्न कचिन्मुह्यति ।
एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते
वाच्यानां वाचकानां च यदौचित्येन योजनम् ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ ३२ ॥ वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्मुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्व्यक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् । ___एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह
मत्ताङ्गनापाङ्गभङ्गस्य लोलशृङ्गारं प्रति संभाव्यमानविभावानुभावलेनाङ्गस्य लोलतायामुपमानतोक्तेति प्रियतमाकटाक्षा हि सर्वस्याभिलषणीया इति तत्प्रतीत्या प्रवृत्तिमान् गुडजिबिकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः । तदेतदुपसंहरन्नस्योक्तस्य प्रेकरणस्य फलमाह-विज्ञायेत्थमिति । स्पष्टम् ।.......... रसादिविषयव्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यनिरूपणं तस्येति । तद्विषयस्येति रसादिविषयस्य । तदिति उपयोगिवं मुख्यमिति । 'आलोकार्थी-' इत्यत्र यदुक्तं तदेवोपसंहृतम् । महाकवेरिति सिद्धवत्फलनिरूपणम् । एवं हि महाकविलं नान्यथेत्यर्थः । इतिवृत्तविशेषाणामिति । इतिवृतं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः “विभावभावानुभावसंचायौचित्यचारुणः । विधिः कथाशरीरस्य -' इत्यादिना । काव्या कृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यस्य विशेषः । एतच्च निर्णीतमाद्योझ्योते 'काव्यस्यात्मा स एवार्थः-' इत्यत्रान्तरे । एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरता
१. 'परिज्ञाय' ग. २. 'वाचकानां च रसादिविशेषेण' ग. १. 'सेव्यमानं' क-ख. २. 'प्रकारस्य' क-ख. ३. 'तदेवैतदुप-' क-ख.
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258