Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 180
________________ १७१ ३ उयोतः] ध्वन्यालोकः । एतदेवोपपादयितुमुच्यते कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ २३ ॥ संध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्पते न च तत्कार्यान्तरैर्न संकीर्यते न च तैः संकीर्यमाणस्यापि तस्य प्राधान्यमपचीयते तथैव रसस्याप्येकस्य संनिवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसंधानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते । एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्याप्तिभिर्यः समावेशः समुपबृंहणं तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नागितामुपहन्ति । अङ्गितां पोषयत्येवेत्यर्थः । एतदुक्तं भवति-अङ्गिभूतान्यपि रसान्तराणि खभावादिसामय्या खावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवोदन्तः । यथाह तत्रभवान्–'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारो हि तथा भूयसि वर्तते ॥' इति । उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते । कार्य हि तावदेकमेवाधिकारिक व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् । तत्पृष्टवर्तिनीनां नायकचित्तवृत्तीनां तद्बालादेवाङ्गाङ्गिभावः प्रवाहपतित इति किमत्रापूर्वमिति तात्पर्यम् । तथेति व्यापितया । यदि वा एवकारो मिन्नक्रमः । तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः । तथा च वृत्तौ वक्ष्यति तथैवेति । कार्यमिति । 'खल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् । बीजात्प्रभृति, 'प्रयोजनानां विच्छेदे यदविच्छेदकारणम् । यावत्समाप्तिः प्रबन्धस्य स तु बिन्दुः' इति बिन्दुस्वरूपतयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाहअनुयायीति । अनेन बीजं बिन्दुश्चेत्यर्थः । प्रकृते संगृहीते । कार्यान्तरैरिति । 'आगर्भादाविमर्शाद्वा पताका विनिवर्तते' इति । प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्य यानि च ततो न व्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्त इति । तथाविध इति । यथा तापसवत्सराजे । एवमनेन श्लोकेना..........ता.... यां दृष्टान्तनिरूपणमिति वृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वम् । १. 'तच्च कार्यान्तरैः' क-ख. २. 'अपनीयते' ग. १. 'व्याप्तं' ग. २. 'काव्यान्तर' ग. ३. 'श्लोकेनाङ्गाङ्गिभावस्येति' क-ख.

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258