Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-५- [नि. १४१८]
२३७
(अध्ययनं-५ - कायोत्सर्ग) वृ- व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्वन्धःअनन्तराध्ययने वन्दनाधकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेषजेनापराधबचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिपक्रमणाद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते
“जह करगओ निकंतइ दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माइं ॥१॥
काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई।
इय भिंदंति सुविहिया अट्टविहं कम्मसंघायं ।।२।।" इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुविशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवन-मैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तनिरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाहनि. (१४१८) आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे।
तव छेय मूल अनवठ्ठया य पारंचिए चेव ।। वृ. 'आलोयणं'ति आलोचना प्रयोजनतो हस्तशताद् बहिर्गमनागमनादौ गुरोर्विकटना, 'पडिक्कमणे'त्ति प्रतीपं क्रमणं प्रतिक्रमणं, सहसाड्ढऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीसं'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गे'त्ति तथ व्युत्सर्गः कुस्वप्नादौ कायोत्सर्ग इति भावना, ‘तवे'त्ति कर्म तापयतीति तपः-पृथिव्यादिसंघट्टनादौ निर्विग (क) तिकादि, ‘छेदे'त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनर्वतारोपणमित्यर्थः, 'अनवट्ठया य'त्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, पारंचिए चेव'त्ति पुरुषविशेषस्य स्वलिङ्गराजपलयाद्यासेवनायां पारञ्चिकं भवति, पारं-प्रायश्चित्तान्तमञ्चति-गच्छतीति पारञ्चिकं, न तत ऊर्दू प्रायश्चित्तमस्तीति गाथार्थः ।। एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, नि. (१४१९) दुविहो कायंमि वणो तदुब्भवागंतुओ अ नायव्यो ।
आगंतुयस्स कारइ सल्लुद्धरणं न इयरस्स ।। वृ-द्विविधो-द्विप्रकारः ‘कायंमि वणो'त्ति चीयत इति कायः--शरीरमित्यर्थः तस्मिन् व्रणःक्षतलक्षणः, द्वैविध्यं दर्शयति-तस्मादुद्भवोऽस्येति तदुद्भ्वो-गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः, कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य-तदुद्भवस्येति गाथार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ce9912674b8d34217b00af196b21fa70bfe2a94171a82a0165e74a7ee2a56310.jpg)
Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356