Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३११
अध्ययनं-६- [नि. १५६१] समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, ‘परया' प्रधानया भत्तयेति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः ।
एत्थ सामाचारी-सावगेण पोसधं पारेंतेन नियमा साधूणमदातूं न पारेयव्वं, अन्नदा पुन अनियमो-दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुव्वं साधूणं दातुं पच्छा पारेतव्य, कधं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं निमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अन्नो पडलं अन्नो मुहनंतयं अन्नो भाणं पडिलेहेति, मा अंतरराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए निमंतेति अस्थि नमोक्कारसहिताइतो तो गेज्झति, अधव नत्थि न गेज्झति, तं वहितव्वयं होति, जति घनं लगेजा ताधे गेज्झति संचिक्खाविनति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो अन्नो वा तस्स दिज्जति, पच्छा तेन सावगेण समगं गम्मति, संघाडगो वच्चति, एगो न वट्टति पेसितं, साधू पुरओ सावगो मग्गतो, घरं नेऊण आसनेन उवनिमंतिजति, जति निविट्ठगा तो लट्ठयं, अध न निवेसंति तधावि विनयो पउत्तो, ताधे भत्तं पानं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिन्नं, साधूवि सावसेसं दव्वं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदित्तुं विसजेति, विसजेत्ता अनुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण न दिन्नं तं सावगेण न भोत्तव्यं, जति पुन साधू नत्थि ताथे देसकालवेलाए दिसालोगो कातव्वो, विसुद्धभावेण चिंतियव्वं-जति साधुणो होता तो नित्थरितो होतोत्ति विभासा ।
इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समचरितव्याः, तद्यथा'सचित्तनिक्षेपणं' सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः, एवं सचित्तपिधानं' सचित्तेन फलादिना पिधानं-स्थानमिति समासः, भावना प्रागवत्, ‘कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदाच किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च
“काले दिन्नस्स योऽन्यः स अगूधो न तीरते काउं ।
तस्सेव अकालपणामियस्स गेण्हतया नत्थि ।।१॥" 'परव्यपदेश' इत्यात्मव्यतिरक्तो योऽन्यः स परस्तत्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिद्यत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, ‘मात्सर्यं' इति याचितः कुप्यति सदपि न ददाति, 'परोन्नतिवैमनस्यं च मात्सर्ग मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतं, अधुनाइत्येष श्रमणोपासकधर्मः । आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति ? , अत्रोच्यते
मू. (८१) इत्थं पुन समणोवासगधम्मे पंचाणुव्वयाइं तिन्नि गुणव्वयाइं आवकहियाई,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356