Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 317
________________ ३१४ आवश्यक मूलसूत्रम् -२-६/८१ 'कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्तव्यमिति-हृदयं, 'साकारं' आक्रियान्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकारमनाकारं, 'परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष'मिति समग्राशनादिविषय इति गाथार्थः । नि. (१५६४) संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं । सयमेवनुपालणियं, दानुवएसु जह समाही ॥ वृ- 'सङ्केतं चैवेति केतं-चिह्वमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, ‘अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविधं' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्तयमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमत्तौ वा निषेध इति, आह च-'दानुवदेसे जध समाधि'त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च "भावितजिनवयणाणं ममत्तरहियाण नत्थि हं विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥१॥" त्ति गाथार्थः ।। साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहनि. (१५६५) होही पजोसवणा मम य तया अंतराइयं हुञ्जा । गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ नि. (१५६६) सो दाइ तवोकम्मं पडिवज्जे तं अनागए काले । __एयं पच्चक्खाणं अनागयं होइ नायव्वं ।।। वृ- भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः । स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत करणादनागतं ज्ञातव्यं भ्भवतीति गाथार्थः ॥ इमा पुन एत्थ भावत्थो-अनागतं पच्चकखाणं, जधा अनागतं तवं करेजा, पजोसवणागहणं एत्थ विकिटं कीरति, सव्वजहन्नो अट्ठमं जधा पज्जोसवणाए, तथा चातुम्मासिए छठें पक्खिए अब्भत्तटुं अन्नेसु य ण्हाणाणजाणादिसु तहिं ममं अंतराइयं होज्जा, गुरू-आयरिया तेसिं कातव्वं, ते किं न करेंति?, असहू होज्जो, अथवा अन्ना काइ आणत्तिगा होज्जा कायव्विया गामंतरादि सेहस्स वा आनेयव्वं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च न सक्केति, जो अन्नो दोण्हवि समत्थे सो करेतु, जो वा अन्नो समत्थो उववासस्स सो करेति नस्थि न वा लभेजा न याणेज्ज वा विधि ताधे सो चेव पुव्वं उववासं कातूणं पच्छा तद्दिवसं भुंजेज्जा, तवसी नाम खमओ तस्स कातव्वं होजा, किं तदा न करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, नथि न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356