Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ६ - [ नि. १५८८ ]
नि. ( १५८८) सव्वोऽविय आहारो असनं सव्वोऽवि वुच्चई पानं । सव्वोऽवि खाइति य सव्वोऽवि य साइमं होई ||
वृ- यद्यनन्तरोदितपदाथपिक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिममं सर्व एव खादिमं भवति, अन्यथा विशेषात्, तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिमममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्यादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति गाथार्थः ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः अन्यथा दोषः, तथा चाह
नि. ( १५८९) जइ असनमेव सव्वं पानग अविवज्रणंमि सेसाणं । हवइ य सेसविवेगो तेन विहत्ताणि चउरोऽवि ॥
३२३
वृ- यद्यशनमेव सर्वमाहाररजातं गृह्यते ततः शेषापरिरभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहाररभेदानां निवृत्तिनं कृता भवतीति वाक्यशेषः, ततः का नो हानिरिति चेत् ? भवति शेषविवेकः अस्ति च शेषाहाररभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकातिया त्यागपालन न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तद्भेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति ‘अर्द्धं कुक्कुट्ट्याः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः । तथा चाहनि. (१५९०)
असनं पानगं चैव खाइमं साइमं तहा । एवं परूवियंमी, सद्दहिउं जे सुहं होइ ॥
वृ- अशनं पानकं चैव खादिमं खादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्त्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ।। आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं ?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह च
नि. (१५९१) अन्नत्थ निवडिए वंजणंमि जो खलु मनोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ||
वृ- अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तररालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्त्तकत्वात्, व्यवहाररदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं तच्छिष्याचार्ययोर्वचनं किमिति ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6f122a2668d416a934b1b3113a17fa45d57f06790cc5dfde3f6ebe63e9c4e4cb.jpg)
Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356