Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३४
आवश्यक मूलसूत्रम् -२-६/९२
पुच्छितेन सव्वं रन्नो सिद्वं, तुट्टेण रन्ना सेट्ठी ठावितो, बोधिलाभो, पुणो धम्मानुट्ठाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्वेण पच्चक्खाणेण देवलोगगमनं पुणो बोधिलाभो सुकुल पच्चायाती सोक्खपरंपरेण सिद्धिगमं, केसिंचि पुणो तेनेव भवग्गहणेण सिद्धिगमनं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह
नि. (१६२० ) पच्चक्खाणमिणं सेविऊण भावेन जिनवरुद्दिहं । पत्ता अनंतजीवा सासयसुक्खं लहुं मुक्खं ॥
वृ- ‘पच्चक्खाणमिणं' गाहा व्याख्या - प्रत्याख्यानमिदं- अनन्तरोक्तं आसेव्य भावेन अन्तःकणेन जिनवरोद्दिष्टं-तीर्थकरकथितं प्राप्ता अनन्तजीवाः, शाश्वतसौख्यां शीघ्रं मोक्षम् II आह-इदं फलं गुणनिरूपणायां 'पञ्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति ?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण ।
उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमवेति नेह प्रत्यन्ते, इह पुनः स्थानाशून्यार्थं एते ज्ञानक्रियान्तरभावद्वारण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च तत्र ज्ञाननयदर्शनमिदं - ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्ति युक्तत्वात्, तथा चाह
नि. (१६२१) नायंमि गिहियव्वे अगिण्हिव्वंमि चेव अत्यंमि । जयव्वमेव इह जो उवएसो सो नओ नाम ||
नि. (१६२२) सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिआ माहू ||
वृ- 'नातम्मि गेण्हितव्वे' गाहा व्याख्या ज्ञाते सम्यक् परिच्छिन्ने 'गेण्हितव्वे ' त्ति ग्रहीतव्ये उपादेये ‘अगिण्हितव्वंमि’त्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते ‘अत्थंमि’त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति - ऐहिकामष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यं, सम्यग्ज्ञाने वर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्“विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ १ ॥”
तथाऽऽमुष्मिकफलप्राप्तयर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः,
यत उक्तं
“पढमं नाणं ततो दया, एवं चिट्ठति सव्वसंजते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356