Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 339
________________ ३३६ आवश्यक मूलसूत्रम् -२-६/९२ प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञान तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः ।। उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्ति-सम्भवाद्, आचार्यः पुनराह_ 'सव्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह'सव्वेसिपि' गाहा व्याख्या-'सर्वेषा'मिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानांद्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ अध्ययन-६- समाप्तम् व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥१॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका !! कृतिः सिताम्बरराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य। ___ यदिहोत्सूत्रज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः ।। क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्त न जायते ? ॥१॥ यदर्जितं विर च (मंच) यता सुबोध्या, पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं, भूयाज्जिनोक्तानुमते प्रयासः ॥२॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च, सर्वत्र माध्यस्थमवाप्नुवन्तु ॥३॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रस्य भद्रबाहुस्वामिविरचिता नियुक्तिः पूर्वाचार्यविरचितं भाष्यं एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता । ४० प्रथमं मूलसूत्रं आवश्यकं समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356