Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 327
________________ ३२४ आवश्यक मूलसूत्रम् -२-६/८२ - छलनाऽसौ व्यञ्जनमात्रं, तदन्यथाभावसभावादिति गाथार्थः ॥ इदं च प्रत्याख्यानं प्रधाननिजरा-कारणमिति विधिवदनुपालनीयं, तथा चाहनि. (१५९२) फासियं पालियं चेव, सोहियं तीरियं तहा । किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥ वृ-स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालाव किञ्चित्कालावस्थानेन कीर्त्तितं-भोजनवेलायामममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितंतथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठा नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्यानं यतः कार्य इति गाथार्थः ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहनि. (१५९३) पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ वृ- प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तोः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ नि. (१५९४) तण्हावोच्छेदेण य अउलोवसमो भवे मनुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं । - तृड्व्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ।। नि. (१५९५) तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो॥ वृ-ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फूरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततःचारित्रधर्मात्, ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्व' मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकलयाणैककारणं अतो यत्लेन कर्त्तव्यमिति गाथार्थः ।। इदं च प्रत्याख्यानं महोपाधे:दाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनि. (१५९६) नमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तढे चरमे य अभिग्गहे विगई ।। नि. (१५९७) दो छच्च सत्त अट्ठ सत्तट्ट य पंच छच्च पाणंमि । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356