________________
३२४
आवश्यक मूलसूत्रम् -२-६/८२
-
छलनाऽसौ व्यञ्जनमात्रं, तदन्यथाभावसभावादिति गाथार्थः ॥
इदं च प्रत्याख्यानं प्रधाननिजरा-कारणमिति विधिवदनुपालनीयं, तथा चाहनि. (१५९२) फासियं पालियं चेव, सोहियं तीरियं तहा ।
किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥ वृ-स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालाव किञ्चित्कालावस्थानेन कीर्त्तितं-भोजनवेलायामममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितंतथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठा नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्यानं यतः कार्य इति गाथार्थः ॥
साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहनि. (१५९३) पच्चक्खाणंमि कए आसवदाराई हुंति पिहियाई ।
आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ वृ- प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तोः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ नि. (१५९४) तण्हावोच्छेदेण य अउलोवसमो भवे मनुस्साणं ।
अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं । - तृड्व्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ।। नि. (१५९५) तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु ।
तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो॥ वृ-ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फूरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततःचारित्रधर्मात्, ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्व' मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकलयाणैककारणं अतो यत्लेन कर्त्तव्यमिति गाथार्थः ।।
इदं च प्रत्याख्यानं महोपाधे:दाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनि. (१५९६) नमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य ।
आयंबिल अभत्तढे चरमे य अभिग्गहे विगई ।। नि. (१५९७) दो छच्च सत्त अट्ठ सत्तट्ट य पंच छच्च पाणंमि ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org