Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 325
________________ ३२२ आवश्यक मूलसूत्रम् -२-६/८१ सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं "सुत्तं सुत्तानुगमो सुत्तालावयगतो य निक्खेवो । सुत्तफासियनिज्जुत्तिणया य समगं तु वच्घंति ||१|| " अत्राक्षेपपरिरहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्रं मू. (८२ ) सूरे उग्गए नमोक्कारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थ अनाभोगेणं सहसाकारेणं वोसिरामि । वृ- तल्लक्षणं 'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥' तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिमं स्वादिमं, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते तत्र 'अश् भोजने' इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खा भक्षणे' इत्यस्य च वक्तव्यादिम प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, 'अन्यत्रे 'ति परिवर्जनार्थं यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्तवेत्यर्थः, तथा सहसाकारणं सहसाकारः - अतिप्रवृत्ति-योगादनिवर्त्तनमित्यर्थः तेन तं मुक्त्वा व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्-पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र-समुदायार्थः । अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाहनि. (१५८६) असनं पानगं चेव, खाइमं साइमं तहा । एसो आहाररविही, चउव्विहो होइ नायव्वो । वृ- अशनं मण्डकौदनादि, पानं चैव द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमंगुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ नि. (१५८७) आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ वृ- साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह- आशु शीघ्रं क्षुधां बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्- इन्द्रियादिलक्षणानां उपग्रहे- उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति - आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान् - रसादीन् - संयमगुणान् वा यतस्ततः स्वादिमं हेतुत्वेन तदेव स्वादयतीर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, साधुरेवायमन्यवर्थ इति गाथार्थः ॥ उक्तः पदार्थ, पदविग्रहतु समासभाक्पदविषय इति नाक्तः । अधुना चालनामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356