________________
३२२
आवश्यक मूलसूत्रम् -२-६/८१
सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं
"सुत्तं सुत्तानुगमो सुत्तालावयगतो य निक्खेवो । सुत्तफासियनिज्जुत्तिणया य समगं तु वच्घंति ||१|| "
अत्राक्षेपपरिरहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण ।
तत्रेदं सूत्रं
मू. (८२ ) सूरे उग्गए नमोक्कारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थ अनाभोगेणं सहसाकारेणं वोसिरामि ।
वृ- तल्लक्षणं
'संहिता च पदं चैव, पदार्थः पदविग्रहः ।
चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥'
तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिमं स्वादिमं, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते तत्र 'अश् भोजने' इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खा भक्षणे' इत्यस्य च वक्तव्यादिम
प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, 'अन्यत्रे 'ति परिवर्जनार्थं यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्तवेत्यर्थः, तथा सहसाकारणं सहसाकारः - अतिप्रवृत्ति-योगादनिवर्त्तनमित्यर्थः तेन तं मुक्त्वा व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्-पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र-समुदायार्थः । अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाहनि. (१५८६) असनं पानगं चेव, खाइमं साइमं तहा । एसो आहाररविही, चउव्विहो होइ नायव्वो ।
वृ- अशनं मण्डकौदनादि, पानं चैव द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमंगुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ नि. (१५८७) आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं ।
खे माइ खाइमंति य, साएइ गुणे तओ साई ॥
वृ- साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह- आशु शीघ्रं क्षुधां बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्- इन्द्रियादिलक्षणानां उपग्रहे- उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति - आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान् - रसादीन् - संयमगुणान् वा यतस्ततः स्वादिमं हेतुत्वेन तदेव स्वादयतीर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, साधुरेवायमन्यवर्थ इति गाथार्थः ॥
उक्तः पदार्थ, पदविग्रहतु समासभाक्पदविषय इति नाक्तः । अधुना चालनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org