Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 323
________________ ३२० आवश्यक मूलसूत्रम् -२-६/८१ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रति-पादनायाह[भा.२४६] पच्चक्खाणं सव्वनुदेसिअं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ वृ-प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतमं, सप्तविंशतिविधं च पञ्चविधं साधूमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराह्ने वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाज्जानीहि श्रद्धानशुद्धमिति गाथार्थः । [भा.२४७] पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ।। वृ-ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः । विनयशुद्धमुच्यते, तत्रेयं गाथा[भा.२४८] किइकम्मस्स विसोही पउंजई जो अहीनमइरित्तं । मनवयणकायगुत्तो तं जाणसु विनयओ सुद्धं ।। वृ-कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्यख्यानकाले अन्यूनातिरिक्तिां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ।। [भा.२४९] अनुभासइ गुरुवयणं अक्खररपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणु भासणासुद्धं ।। वृ- अधुनाऽनुभाषणशुद्ध प्रतिपादयन्नाह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते ? -अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति-वोसिरामो'त्ति, सेस गुरुभणितसरिसं भाणितव्वं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तजानीह्यनुभाषणाशुद्धमिति गाथार्थः । [भा.२५०] कंतारे दुब्भिक्खे आयके वा महई समुष्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ।। वृ-साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्के वा-ज्वरादौ महति समुत्पन्ने सति यत् यन्त्र भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसादस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु न भजंतित्ति गाथार्थः ।। [भा.२५१] रागेण व दोसेण व परिणामेण व न दूसियं जंतु । तं खलु पञ्चखाण भावविसुद्धं मुणेयव्वं ।। वृ-इदानीं भावशुद्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु-यदेव For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356