________________
३१४
आवश्यक मूलसूत्रम् -२-६/८१
'कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमवेत्यर्थः, 'नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्तव्यमिति-हृदयं, 'साकारं' आक्रियान्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकारमनाकारं, 'परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष'मिति समग्राशनादिविषय इति गाथार्थः । नि. (१५६४) संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं ।
सयमेवनुपालणियं, दानुवएसु जह समाही ॥ वृ- 'सङ्केतं चैवेति केतं-चिह्वमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, ‘अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविधं' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्तयमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमत्तौ वा निषेध इति, आह च-'दानुवदेसे जध समाधि'त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च
"भावितजिनवयणाणं ममत्तरहियाण नत्थि हं विसेसो ।
अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥१॥" त्ति गाथार्थः ।। साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहनि. (१५६५) होही पजोसवणा मम य तया अंतराइयं हुञ्जा ।
गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ नि. (१५६६) सो दाइ तवोकम्मं पडिवज्जे तं अनागए काले ।
__एयं पच्चक्खाणं अनागयं होइ नायव्वं ।।। वृ- भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः । स इदानीं तपः कर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत करणादनागतं ज्ञातव्यं भ्भवतीति गाथार्थः ॥
इमा पुन एत्थ भावत्थो-अनागतं पच्चकखाणं, जधा अनागतं तवं करेजा, पजोसवणागहणं एत्थ विकिटं कीरति, सव्वजहन्नो अट्ठमं जधा पज्जोसवणाए, तथा चातुम्मासिए छठें पक्खिए अब्भत्तटुं अन्नेसु य ण्हाणाणजाणादिसु तहिं ममं अंतराइयं होज्जा, गुरू-आयरिया तेसिं कातव्वं, ते किं न करेंति?, असहू होज्जो, अथवा अन्ना काइ आणत्तिगा होज्जा कायव्विया गामंतरादि सेहस्स वा आनेयव्वं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च न सक्केति, जो अन्नो दोण्हवि समत्थे सो करेतु, जो वा अन्नो समत्थो उववासस्स सो करेति नस्थि न वा लभेजा न याणेज्ज वा विधि ताधे सो चेव पुव्वं उववासं कातूणं पच्छा तद्दिवसं भुंजेज्जा, तवसी नाम खमओ तस्स कातव्वं होजा, किं तदा न करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, नथि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org