________________
अध्ययनं-६- नि. १५६१]
३१३ पालनीयेत्यधाहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरमणमस्ति तथाऽपि न तद् गृह्यते, किं तहिं ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा तस्याः जोषणं-सेवनं तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः ।
एत्थ सामायारी-आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति, न सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतव्वंति विभासा । आह उक्तम्-'अपश्चिमा मारणान्तिीकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस अतिचारा इति तानुपदर्शयन्नाह
'इमीए समणोवासएणं' अस्या-अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, इहलोको-मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं ‘परलोकाशंसाप्रयोगः' परलोके-देवलोके, एवं जीवितशंसाप्रयोगः, जीवितं-प्राणधारणं तत्राभिलाषप्रयोगः-यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपजादर्शनात् बहपरिवारदर्शनाच्च, लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, ‘मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्वाघते, ततस्तस्यैवंविधश्चित्तपरिणामो जायतेयदि शीघ्रं म्रियेऽहमपुण्यकर्मेति, 'भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि । उक्तं : श्रावकधर्मः, व्याख्यातं सप्रभेदं देशोत्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तररगुणप्रत्याख्यानमच्यते, तत्रेयं गाथा-'पच्चक्खाणं' गाहा । अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधरणमपीत्यतस्तदभिधित्सयाऽऽहनि. (१५६२) पच्चक्खाणं उत्तरगुणेसु खमणाइयं अनेगविहं ।
तेन य इहयं पगयं तंपि य इणमो दसविहं तु ।। वृ- प्रत्याख्यानं प्राग्निरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध' मित्यनेकप्रकारं, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तररगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्र'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं त-मलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः ।। अधुना दशविधमेवोपन्यस्यन्नाहनि. (१५६३) अनागयमइक्वंतं कोडिसहिअं निअंटिअं चेव ।
सागारमनागारं परिमाणकडं निरवसेसं ।। वृ- 'अनागतं०' गाथा, अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्-भावादारत एव तत्तपः करणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org