Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 315
________________ ३१२ आवश्यक मूलसूत्रम् -२-६/८१ चत्तारि सिक्खावयाइं इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहातं निसग्गेण वा अभिगमेण वा पंच अईयारविसुद्धं अनुव्वयगुणव्वयाइं च अभिग्गहा अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया, इमीए समणोवासएणं इमे पञ्च०, तं जहा-इहलोगासंसप्पओगे पररलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ।। वृ- अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवदाारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च-‘एत्थ पुंसमणोवासगधम्मे मूलवत्थु संमत्त' मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानी'ति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह-अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलस्थ्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग०' अस्य पुनः श्रमणोपासकधर्मस्य, पुनः शब्दोऽवधारणार्थः अस्यैव, शाक्यादिद्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम् "द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्तव" मिति, कथं पुनरिदं भवत्यत आह-'तनिसग्गेण०' तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीतिक्रिया तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च ___“ऊसरदेसं दड्ल्लियं च विज्झाइ वनदवो पप्प । इय मिच्छस्स अनुदये उवसम सम्मं लभति जीवो ।।१।। ___ जीवादीनमधिगमो मिच्छत्तस्स तु खयोवसमभावे । अधिगम सम्मं जीवो पावेइ विसुद्धपरिणामो ॥२॥" त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्यक्त्वादिभावररत्लावाप्ति विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपररेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः ‘पञ्चातिचारविसुद्ध' मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपञ्चतिचारविशुद्धमनुपालनीयमिति शेषः, तथा अनुव्रतानिप्रागनिरूपितस्वरूपाणि ध्ढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाधतिचारहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगः सम्यक्परिपालनीयाः, तत्र प्रतिमा- पूर्वोक्ताः ‘दंसणवयसामाइय' इत्यादिना ग्रन्थेन आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356