Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 307
________________ ३०४ आवश्यक मूलसूत्रम् -२-६/७२ आरम्भो-भूतोपमर्दोऽर्थदण्डः, दण्डोनिग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुंस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा 'अपध्यानाचरित' इति अपध्यानेनाचरितः अपध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरितः' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-'मज्जं विसयकसाया विकथा निद्दा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, 'हिंसाप्रदानं' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानन्यस्मै क्रोधाभिभूता-यानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, ‘पापकर्मोपपदेशः' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा चोक्तं "छित्ताणि कसध गोणे दमेध इच्चादि सावगजनस्स । . नो कप्पति उवदिसिउं जाणियजिनवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्योऽस्यैवातिचारभिधित्सयाऽऽह-'अनट्ठदंडे' त्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाकन्दर्पः कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति नाम हसियव्वं तो ईसि चेव विहसितव्वंति । कौकुच्यं-कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भावः कौकुच्यंअनेकप्रकारा मुखनयनोष्ठकरचरणभूविकारपूर्विका परिहासादिजनिका भाण्डादीनामि विडम्बनक्रियेत्यर्थः । एत्थ सामायारी-तारिस-गाणि भासितुं न कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वा ठातितुन्ति ! मौखर्यं-धाष्ठाप्रायमसत्या सम्बद्धप्रलापित्वमुच्यते, मुहेण वा अहिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रन्ना निवेदितं, ताए जीविकाए वित्ति दिन्ना, अन्नता रुद्वेण मारितो कुमारामच्चे । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं-वास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं-अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्वाणि, एवं वासीपरसुमादिविभासा । उपभोगपरिरभोगातिरेक' इति उपभोगपरिभ्भोगशब्दार्थो निरूपित एव तदतिरेकः । एथवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा ण्हायगा वचंति तस्स लोलियाए, अण्हविण्हायगा ण्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिविभासा, एवं न वट्टति, का विधी सावगस्स उवभोगे पहाणे?, घरे व्हायव्वं नत्थि ताधे For Private & Personal Use Only Jain Education International For Private www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356