Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 309
________________ ३०६ आवश्यक मूलसूत्रम् -२-६/७७ ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिनिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता निविट्ठो पुच्छंति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ नवरि गमनं नत्थि, जो इड्डीपत्तो (सो) सव्विड्डीए एति, तेन जनस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थि - मादिणा जनेन य अधिकरणं वट्टति, ताधे न करेति, कयसामाइएण य पादेहिं आगंतव्वं, तेनं न करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो न कोइ उट्ठेति, अह अहाभद्दओ ता पूता कता होतुत्ति भ्भण (ण्ण) ति, ताधे पुव्वरइतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उतमणुते दोसा विभासितव्वा, पच्छा सो इडीपत्तो सामाइयं करेइ अनेन विधिना करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि दुविधं तिविधेण जाव नियमं पजुवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवनेति कुंडलाणि नाममुद्दं पुप्फतंबोलपावारगमादी वोसिरति । एसा विधी सामाइयस्स । आह - सावद्य - योगपरिरवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः साधुरेव स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयपरिरग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्राङ्गात्, साधुश्रावकयोश्च प्रपश्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारः सिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधंता वेदेन्ता पडिवज्जाइक्कमे पंच ||१|| इह शिक्षाकृतः साधु श्रावकयोर्महान् विशेषः, सा च शिक्षा द्विधा - आसेवनशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपेक्षणादिक्रियारूपा, शिक्षा - अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रबालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञा-नादसम्भवाच्च, ग्रहणशिक्षां पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीविनिकायां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत् नतु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम् “सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेन कारणेणं बहुसो सामाइयं कुज्जा ||१||" इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते - सामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक एव कृते न शेषकालं श्रमण इव-साधुरिरव श्रावको भवति यस्मात्, एतेन कारणेन बहुशः - अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति,, तथा चोक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356