Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-६- [नि. १५६१]
३०७
"अविराधित-सामण्णस्स साधुणो सावगस्स उ जहण्णो ।
सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं ॥१॥" तथा स्थितिभैदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति,, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणे जघन्य तु पल्योपममिति । तथा गतिर्भेदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालाद्दष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि । तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सञ्चलनापेक्षया चतुस्विट्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुब्बन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य । तथा बन्धश्च भेदकः,, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, उक्तं च
“सत्तविधबंधगा हुंति पाणिणो आउवनगाणं तु । तह सुहुमसंपरागा छव्विहबंधा विनिद्दिठ्ठा ॥१॥ मोहाउयवजाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगबिधबंधा ॥२॥ ते पुन दुसमयठितीयस्स बंधगा न पुन संपरागस्स ।
सेलेसीपडिवण्णा अबंधगा होति विन्मया ॥३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपथिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूदेशविरतेरप्यभाव इति, आह च- सामाइयंमि उ कए' 'सव्वंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्वं सावधे योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य ‘सर्वां' निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कइ'थि भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः ।
इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' (गाहा), सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथामनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च
“सामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सड्ढो । अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1a4934d2474deb32185b2c7cf29f999bed10a18f85900426852354f82e251065.jpg)
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356