Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३०२
आवश्यक मूलसूत्रम् -२-६/६९
चित्तकूडअंजणगमंदरादिसु पव्वतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरियं जं पमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितव्वं, खेत्तवुड्डी सावगेण न कायव्वा, कथं ?, सो पुवेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्घतित्तिकातुं अवरेण जाणि जोयणाणि पुव्वदिसाए संछुभति, एसा खेत्तवुड्डी से न कप्पति कातुं, सिय जति वोलीणो होज्जा नियत्तियव्वं, विस्सारिते य न गंतव्वं, अन्नोवि न विसज्जितव्यो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेन लद्धं तं न गेण्हेजत्ति । उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं
मू. (७०) उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा-भोअणओ कम्मओ अ । भोअणओ समणोवा० इमे पञ्च०-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहि भक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया।
वृ- उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगः-आहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यते इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं-उपभोगपरिभोगव्रतं, एतत् तीर्थकरणगणधरैर्द्विविधं प्रज्ञप्त, तद्यथेत्युदाहरणोन्यसार्थः, भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः । __इह चेयं सामाचारी-भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेज्जा, तस्सासति अफासुगमवि सचित्तवज्जं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमं च अन्नं भोयणतो परिहरति-असणे अणंतकायं अल्लगमूलगादि मंसं च, पाणे मंसरसमजादि, खादिमे उदुंबरका-उंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयव्वं, जदा किर न होज्ज अचित्तो तो उस्सग्गेण भत्तं पञ्चक्खातितव्वं न तरति ताधे अववाएण सचित्तं अनंतकायबहुबीयगवलं, कम्मतोऽवि अकम्मा न तरति जीवितुं ताधे अचंतसावजाणि परिहरिजंति । इदमपि चातिचाररहितमनुालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-भोयणतो समणोवासएण' भोजनतो यद्वतमुक्तं तदाश्रित्य श्रमणोसकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'सचित्ताहारः' सचित्तं चेतना संज्ञानमुयोगोधानमिति पर्यायाः, सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सत्तिमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना। तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्वफलानि वा । तथा अपक्वोषधभक्षणत्वमिदं प्रतीतं, सचिथसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्लयादि पुष्पादि वा संमिश्र, तथा दुष्पक्वौषधिभक्षणता दुष्पक्वाः-अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बह्विभिरप्यैहिकोऽप्यपायः सम्भाव्यते । एत्थ सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खावति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e1140f7472b36c5e80f31ccc0b471abfea506d961bc824ce9e7e3b5b3bf40c6a.jpg)
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356