Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 303
________________ ३०० आवश्यक मूलसूत्रम् -२-६/६७ जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा णं कप्पंति, न वट्टति महती दारिया दिज्जउ गोधने वा डो छुपेजेति भणिउं । काम्यन्त इति कामाः - शब्दरूपगन्धा भुज्यन्त इति भोगारसस्पर्शीः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलार्षो नाम तदध्यवसायित्वं, तस्माच्चैदं करोतिसमाप्ततोऽपि योषिन्मुखोपस्थकर्णकक्षारेषवतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्त, योषिदवाच्यदेशं वा मृद्नाति । एतानीतवरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुट्ठस्स भवंति णो परदारविवज्जगस्स, सेसा पुन दोहवि भवन्ति, दोसा पुन इत्तरियपरिगहितागमणे बिदिएण सद्धि वेरं होज्ज मारेज तालेज वा इत्यादयः, एवं सेसेसुवि भाणियव्वा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, मू. (६८) अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तं जहा-सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धनधन्नमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ॥ वृ- 'अपरिमितपरिग्गहं समणोवासतो पञ्चक्खाति' परिग्रहणं परिग्रहः अपरिमितःअपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं द्विपपदचतुष्पपदादि तदेव परिग्रहः अचित्त-रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअनव्वते अनियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम् - लुद्धनंदो कुसीमूलियं लद्ध विट्ठो नंदो सावगोपूतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्कणति छुद्धाए मरंती, सण भणिता - एत्तिअपरिक्खओ नत्थि, अन्नस्स नीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देह, सुभक्खे तीए भत्तारो आगतो, पुच्छति रतणाणि कहिं ?, भणति-विक्कियाणि मए, कहं ?, सा भइ - गोहुमसेइयाए एक्केकं दिनं अमुगस्स वाणियगस्स, सो वाणियगो तेन भणिओ - रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रन्नो मूलं गतो एरिसे अग्घे माणे एतस्स एतेन एत्तियं दिन्नं, सो विनासितो, पढमं पुन ताणि रतणाणि सावगस्स विक्कणियाणि तेन परिग्गहपरिमाणा इरित्ताइतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । इदं चातिचाररहितमनुपालनीयं, तथा चाह 'इच्छापरिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं तच्च सेतुकेतुभेदाद् द्विभेदं तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधंखातमुत्सृतं खातोच्छ्रितं च तत्र खातं भूमिगृहकादि उच्छ्रतं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं - रजतमघतिमं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356