________________
३००
आवश्यक मूलसूत्रम् -२-६/६७ जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा णं कप्पंति, न वट्टति महती दारिया दिज्जउ गोधने वा डो छुपेजेति भणिउं । काम्यन्त इति कामाः - शब्दरूपगन्धा भुज्यन्त इति भोगारसस्पर्शीः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलार्षो नाम तदध्यवसायित्वं, तस्माच्चैदं करोतिसमाप्ततोऽपि योषिन्मुखोपस्थकर्णकक्षारेषवतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्त, योषिदवाच्यदेशं वा मृद्नाति । एतानीतवरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुट्ठस्स भवंति णो परदारविवज्जगस्स, सेसा पुन दोहवि भवन्ति, दोसा पुन इत्तरियपरिगहितागमणे बिदिएण सद्धि वेरं होज्ज मारेज तालेज वा इत्यादयः, एवं सेसेसुवि भाणियव्वा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते,
मू. (६८) अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तं जहा-सच्चित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा० इमे पंच०-धनधन्नमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ॥
वृ- 'अपरिमितपरिग्गहं समणोवासतो पञ्चक्खाति' परिग्रहणं परिग्रहः अपरिमितःअपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं द्विपपदचतुष्पपदादि तदेव परिग्रहः अचित्त-रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअनव्वते अनियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम् - लुद्धनंदो कुसीमूलियं लद्ध विट्ठो नंदो सावगोपूतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्कणति छुद्धाए मरंती, सण भणिता - एत्तिअपरिक्खओ नत्थि, अन्नस्स नीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देह, सुभक्खे तीए भत्तारो आगतो, पुच्छति रतणाणि कहिं ?, भणति-विक्कियाणि मए, कहं ?, सा भइ - गोहुमसेइयाए एक्केकं दिनं अमुगस्स वाणियगस्स, सो वाणियगो तेन भणिओ - रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रन्नो मूलं गतो एरिसे अग्घे
माणे एतस्स एतेन एत्तियं दिन्नं, सो विनासितो, पढमं पुन ताणि रतणाणि सावगस्स विक्कणियाणि तेन परिग्गहपरिमाणा इरित्ताइतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । इदं चातिचाररहितमनुपालनीयं, तथा चाह
'इच्छापरिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं तच्च सेतुकेतुभेदाद् द्विभेदं तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधंखातमुत्सृतं खातोच्छ्रितं च तत्र खातं भूमिगृहकादि उच्छ्रतं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि प्रासादः एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोलङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं - रजतमघतिमं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org