________________
अध्ययनं-६- [नि. १५६१
३०१ एतद्ग्रहणाच्चेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यपमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्य-व्रीहिकोद्रवमुद्गमाषतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनिदासीमयूरहंसादीनि, चतुष्पदानि-हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं-आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान क्षेत्रवास्तप्रमाणातिक्रमादीन समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि भणितव्वा । उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणुव्रतानि, साम्प्रतमे तेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिग्व्रतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह
मू. (६९) दिसिवए तिविहे पन्नत्ते-उड्डदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो० इमे पञ्च० तं जहा-उड्डदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्डी सइअंतरद्धा ।
वृदिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां संबन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्व्रतं, एतच्चौघतः त्रिविधं प्रज्ञप्तं तीर्थकरगणघरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वादिग् ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्व दिग्व्रतं, एतावती दिगूर्द्ध पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिग्व्रतं-अर्वाग्दिगव्रतम्, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक दिशस्तिर्यगदिशः-पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्व्रतं, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः ।
इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-दिसिवयस्स समणो०' दिग्व्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाऊर्ध्वदिक्प्रमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यदिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः (इति) एकतो योजनशतपरिरमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समुपन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंशः-अन्तर्धानं स्मृत्यन्तर्धानं किं मया परिरगृहीतं कया मर्यादया व्रतमित्येवमननुस्मररणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तद् भ्रंशे तु नियमत एव नियमभ्रंश इत्यतिचारः।
एत्थ य सामाचारी-उड्ड जं पमाणं गहितं तस्स उवरिं पव्वतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमिं वच्चेज्जा, तत्थ से न कप्पति गंतुं, जाधे तु पडितं अन्नेन वा आनितं ताधे कप्पति, इदं पुन अट्ठावयहेमकुडसम्मेयसुतिट्ठउज्जेतFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International