Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६०
आवश्यक मूलसूत्रम् - २-५ / ३९
अभिगृह्यत इति अभिग्रहः अभिग्रहेण निर्वृत्त आभिग्रहिकः- कायोत्सर्गस्तदव्यतिरेकात् तत्कर्त्ताऽप्याभिग्रहिको भण्यते, असावफयभिभवकायोत्सर्गकार्य पीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः किमित्यत आह- 'सजमरणं निरोहे' त्ति सद्योमरणं निरोधे उच्छ्वासस्य, ततश्च 'सुहुमुस्सासं तु जयणाए 'त्ति सूक्ष्मोच्छ्वासमेव यतनया मुञ्चति, नोल्बणं, मा भूत् सत्त्वघान इति गाथार्थः ॥
1
अधुना 'कासिते' त्यादिसूत्रार्थ-प्रच्किटिषयेदमाह
नि. (१५११) कासखुअजंभिए मा हु सत्थमणिलोऽनिलस्स तिव्वुण्हो । असमाही य निरोहे मा मसगाई अ तो हत्थो ।
वृ- 'कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ? -'मा हु सत्यमनिलोऽनिलस्स तिव्वुण्हो' त्ति मा शस्त्रं भविष्यति कासितादि - समुद्भवोऽनिलो वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः ? - तीव्रोष्णः, बाह्यानिलोपेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे' त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, ' मा मसगाई 'त्ति मा मसकादयश्च कासितादिसमुद्भवपवन श्लेष्माभिहता मरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥ आह- निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छ्रसितेन तुल्ययोगक्षेमत्वादिति,
इदानीम् 'उद्गारितेने' त्यादिसूत्रावयवव्याचिख्यासयाऽऽह
नि. (१५१२ ) वायनिसगग्गुड्डोए जयणासद्दस्स नेव य निरोहो । उड्डो वा हत्थो भमलमुच्छासु अ निवेसो ॥
वृ- वातनिसर्गः-उक्तस्वरूप उद्गारोऽपि तत्रायं विधिः यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहो' त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ।। साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै' रित्यादिसूत्रावयवव्याचिख्यासयाऽऽहवीरियसजोगयाए संचारा सुहुमबायरा देहे ।
नि. (१५१३)
बाहिं रोमंचाई अंतो खेलाणिलाईया ||
वृ- वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग तयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमञ्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः । अधुना 'सूक्ष्मैर्दृष्टिसञ्चारै' रिति सूत्रावयवं व्याख्यानयति
नि. (१५१४) अव लोअचलं चक्खू मनुव्व तं दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलइ ॥
-
वृ- अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं ? -चक्षुःनयनं, यतश्चैवमतो मनोवद् - अन्तःकरणमिव तचक्षुर्दुष्करं स्थिरं कर्तुं न शक्यत इत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f73dbf4f21dad6045e61ea312a701eb5d89af0ca8e6d9c24946ce93f9baf2cda.jpg)
Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356