Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 262
________________ अध्ययनं-५- [नि. १५०४] २५९ अइयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनाध्त्य 'तस्स मिच्छामि दुक्कडं'ति सूत्रावयवं व्याचिख्यासुराहनि. (१५०५) मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ।। नि. (१५०६) कत्ति कडं मे पावं इत्तिय डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥ वृ- इत्थं (द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव दृष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाहनि. (१५०७) खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ जह सगडरहंगगेहाणं ।। वृ- ‘खण्डितविराधितानां' खण्डिताः-सर्वथ भग्ना विराधिताः-देशतो भग्ना मूलगुणानांप्राणातिपातादिवि-निवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानांगन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः । अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्यासुराहनि. (१५०८) पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेनं । पाएण वावि चित्तं विसोहए तेन पच्छित्तं ।। वृ- ‘पावं' गाहा, व्याख्या-पापं-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृत®ल्या 'पायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ॥ अधुना 'विशोधिकरणे' त्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५०९) दव्वे भावे य दुहा सोही सल्लं च इक्कमिक्कंतु । . सव्वं पावं कम्मं भामिज्जइ जेन संसारे ।। वृ-'दव्वे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, ‘एक्कमेक्कं तु'त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशुद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ? -भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरज्जुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः साम्प्रतम् ‘अन्यत्रोच्छ्रसितेने'त्यवयवं विवृणोतिनि. (१५१०)उस्सासं न निरंभइ आभिग्गहिओवि किमुअ चिट्ठा उ?। सज्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ॥ वृ- ऊर्ध्वं प्रबलः श्वास उच्छ्वासः तं 'न निरंभइ'त्ति न निरुणद्धि, ‘आभिग्गहिओवि' Jain Education International For Privaté & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356