Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 268
________________ अध्ययनं - ५ - [ नि. १५२३] नेत्याह २६५ 'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामि' त्ति, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दंसणविसुद्धीय तइउ'त्ति तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयति, तओ नमोक्कारेण पारेत्ता सुयनाणपरिवुड्डिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, तं - मू. (४८) पुक्खरवरदीवड्ढे धायइड य जंबुद्दीवे य । भर हेरवयविदेहे धम्माइ गरे नम॑सामि || वृ- पुष्कराणि-पद्मानि तैर्वरः - प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः, तस्यार्धं मानुषोत्तराचलार्वाग्वर्त्ति तस्मिन् तथा धातकीनां खण्डानि यस्मिन् स धानकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वद्धैतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्व्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिदेशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि'दुर्गति-प्रसृतान् जीवान्, यस्माद् धारयत ततः । धत्त चैतान् शुभस्थाने, तस्माद् धर्म्म इति स्मृतः ॥ स च द्विभेदः - श्रुतधर्मश्चारित्रधर्मश्च श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यतेतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । मू. (४९) सीमाधरस्स वंदे पप्फोडियमोहजालस्स || वृ- 'तमतिमिरपडलविद्धंसणस्स सुरगणे' त्यादि, तमः - अज्ञानं तदेव तिमिरं अथवा तमःबद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीनि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि - आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? -प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोरचरतां प्रतिपादन्नाह पू. (५०) जाईजरामरणसोगपणासणरस, कल्लाणपुक्खलविसालसुहावस्स । को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ? | वृ- ‘जाईजरामरण’त्यादि, जातिः - उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शीकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयतिअपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं सम्पूर्णं न च तदल्पं किं तु विशालं विस्तीर्णं सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356