________________
अध्ययनं - ५ - [ नि. १५२३]
नेत्याह
२६५
'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामि' त्ति, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दंसणविसुद्धीय तइउ'त्ति तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयति, तओ नमोक्कारेण पारेत्ता सुयनाणपरिवुड्डिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, तं - मू. (४८) पुक्खरवरदीवड्ढे धायइड य जंबुद्दीवे य ।
भर हेरवयविदेहे धम्माइ गरे नम॑सामि ||
वृ- पुष्कराणि-पद्मानि तैर्वरः - प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः, तस्यार्धं मानुषोत्तराचलार्वाग्वर्त्ति तस्मिन् तथा धातकीनां खण्डानि यस्मिन् स धानकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वद्धैतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्व्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिदेशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि'दुर्गति-प्रसृतान् जीवान्, यस्माद् धारयत ततः । धत्त चैतान् शुभस्थाने, तस्माद् धर्म्म इति स्मृतः ॥ स च द्विभेदः - श्रुतधर्मश्चारित्रधर्मश्च श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यतेतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स ।
मू. (४९)
सीमाधरस्स वंदे पप्फोडियमोहजालस्स ||
वृ- 'तमतिमिरपडलविद्धंसणस्स सुरगणे' त्यादि, तमः - अज्ञानं तदेव तिमिरं अथवा तमःबद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीनि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि - आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? -प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोरचरतां प्रतिपादन्नाह
पू. (५०) जाईजरामरणसोगपणासणरस, कल्लाणपुक्खलविसालसुहावस्स । को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ? | वृ- ‘जाईजरामरण’त्यादि, जातिः - उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शीकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयतिअपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं सम्पूर्णं न च तदल्पं किं तु विशालं विस्तीर्णं सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org