________________
२६४
आवश्यक मूलसूत्रम् -२-५/४०
“धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् ।
तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।।१।। सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलाक्य इत्यर्थः, तथाहि-अधोलाके चमरादिभवनेषु तिर्यग्लाक द्वीपाचलज्यातिष्कविमानादिषु सन्त्यवार्हच्चैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्यवाहैच्चैत्यानि, तत्राशकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तःतीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भाव कर्मणि वा वर्णद्रढादिलक्षण ष्यञि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तात्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं ? -करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं तस्योत्सर्गः-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गं, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्तं, तत् किमर्हच्चैत्यानां कायात्सर्ग करोति ?, नेत्युच्यते,
षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, तताऽर्हच्चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायात्सर्गादित्यताऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं, तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाए'त्ति सत्कार-प्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावव कस्मान्न क्रियेते?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-‘दव्वत्थउ भावत्थउ' इत्यादि, अतः श्रावकः पूजनसत्कारावपि कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमवमभिदधति, तथा 'सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सन्मान-निमित्तं, तत्र स्तुत्यादिभिर्गुणोनतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्वोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसनिमित्तं, निरुपसर्गो-मोक्षः, __अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा (दि) विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए धिईए धारणाए अनुप्पेहाए वद्धमाणीए ठामि काउस्सग्गं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्गं न बलाभियागादिना श्रद्धा-निजोऽभिलाषः, एवं मेघया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्यामनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हदगुणानामेव मुहुर्मुहरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यत, श्रद्ध्या वर्द्धमानया एवं मेधयत्यादि, एवं तिष्ठामि कार्योत्सर्गम्, आह-उक्तमेव प्राक्करोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति ?, उच्यते, 'वर्तमानसामीप्ये वर्तमानवद्वा इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयाः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org